संसारे नास्तिकः कस्य स्वयं तस्मात्प्रदीयते । पानमन्नं च तांबूलमुदकं कांचनं तथा
वसनं गां च भूमिं च च्छत्रपात्राण्यनेकधा । फलानि भूमिदानानि विविधानि स्वशक्तितः
दातव्यानि महीदेव नात्र कार्या विचारणा । तीर्थानां लक्षणं विप्र प्रवक्ष्यामि तवाग्रतः
सुतीर्थानि इयं गंगा भाति पुण्या सरस्वती । रेवा च यमुना तापी नदी चर्मण्वती तथा
सरयू च वरा वेणी पूर्णा पापप्रणाशिनी । कावेरी कपिला चान्या विशल्या विश्वतारिणी
गोदावरी समाख्याता तुंगभद्रा च गंडकी । पापानां भीतिदा नित्यं नदी भीमरथी स्मृता
देविका कृष्णगंगा च अन्या याः सरितांवराः । एतास्तु पुण्यकालेषु संति तीर्थान्यनेकशः
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः । तत्र तत्रैव कर्त्तव्याः स्नानदानादिकाः क्रियाः
यदा न ज्ञायते नाम तस्य तीर्थस्य भो द्विज । तत्रेत्युच्चारणं कार्यं विष्णुतीर्थमिदं महत्
तीर्थस्य देवता विष्णुःस र्वत्रापि न संशयः । नारायणेति यन्नाम स्मरेत्तीर्थेषु साधकः
तस्य तीर्थफलं सम्यग्विष्णुनाम्नैव जायते । अज्ञातानां च तीर्थानां देवतानां न संशयः
विष्णुनाम्नैव नामानि मानवः परिकीर्तयेत् । सर्वास्तु सिद्धयः पुण्यास्तीर्थभूतास्तु सागरः
सरांसि मानसादीनि निर्झराः पल्वलादयः । स्वल्पा नद्योऽपि सर्वास्तास्तीर्थानि हरिनामतः
पर्वतास्तीर्थरूपाश्च यज्ञो यज्ञमही तथा । ब्राह्मणा यत्र विद्वांसः कौतुकेनाप्यवस्थिताः
तदेव तीर्थं सुमहत्सर्वपापहरं स्मृतम् । श्राद्धं च श्राद्धभूमिश्च देवशाला च होमभूः
यत्र वेदध्वनिः सम्यग्यत्र विष्णुकथाः शुभाः । स्वगृहं पुण्यसंयुक्तं गोस्थानमपि पावनम्
यत्राश्वत्थ तरु वने यत्रागारोपि पावनः । एवमादीनि तीर्थानि पिता माता तथैव च
पच्यते यत्र धर्मार्थं स्वयं तत्र गुरुः स्थितः । साध्वी यत्रास्ति वै भार्या तत्र तीर्थं न संशयः
यत्र धर्मरतिर्नित्यं विद्वान्पुत्रः प्रवर्तते । तत्र तस्य हि तत्तीर्थं तारणाय प्रतिष्ठितम्
इत्येवमादि तीर्थानि राजवेश्म तथैव च । एवमादिषु तीर्थेषु पर्वयोगाद्विशेषतः
अनाराध्य हृषीकेशं सर्वदं सर्वदेहिनाम् । कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम्
अपत्यं द्रविणं दारास्तारहर्म्यं हया गजाः । सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः
नारायणः परो देवः सत्यरूपो जनार्दनः । त्रिधात्मानंसभगवान्ससर्जपरमेश्वरः
रजस्तमोभ्यांयुक्तोऽभूद्रजःसत्वाधिकंविभुः । ससर्जनाभिकमलेब्रह्माणंकमलासनम्
रजसा तमसा जुष्टं स रुद्रमसृजद्विभुः । सत्वं रजस्तमश्चैव त्रितयं चैतदुच्यते
सत्वेन मुच्यते जंतुः सत्वं नारायणात्मकम् । रजसा सत्वयुक्तेन भवेच्छ्रीमान्यशोधिकः
यद्वेदवाक्यं धर्मस्य समुद्दिश्योपसेवते । तद्रुद्रमिति विख्यातं विशिष्टं गदितं नृणाम्
तेन राजा भवेल्लोके रजसा तमसा पुनः । यद्धीनं रजसा धर्मं केवलं तामसं च यत्
तच्च दुर्गतिदं नॄणामिहलोके परत्र च । यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा स स्वयं हरः
देवास्त्रयोपि यज्ञेऽस्मिन्निज्या देवेषु नित्यशः । यो भेदं कुरुते तेषां त्रयाणां द्विजसत्तमः