उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथा । अन्ये भुंजंति तस्याग्रे भोगानन्यान्मनोगतान्
किं करोमि समर्थश्च न दत्तं दानमुत्तमम् । महता रोगरूपेण तमेनं परिवारयेत्
नित्यकालस्य यद्दानमात्मानं पापिभिर्यथा । न दत्तं च महीदेव श्रद्धया निजशक्तितः
तथायातान्प्रधक्ष्येतानुपायैर्दारुणैः किल । नैमित्तिकं प्रवक्ष्यामि दानकालं तवाग्रतः
महापर्वणि संप्राप्ते तीर्थप्राप्तौ तथैव च । पितुः क्षयाहदिवसे वैशाखादिषु यत्नतः
मासेषु पुण्यकालेषु दानं नैमित्तिकं स्मृतम् । काम्यकालं प्रवक्ष्यामि यद्दानं फलदायकम्
व्रतादिकं समुद्दिश्य कामनाफलकल्पितम् । यत्कामं कथितं सम्यक्सर्वांगैरेव संगतम्
तस्य दानप्रभावेण भावनापरिभावितः । तादृक्फलं समश्नाति मानुषस्तत्प्रसादनात्
आभ्युदयं प्रवक्ष्यामि यच्च यज्ञादिषु स्मृतम् । जातकर्मादिकार्येषु मौञ्ज्याद्युद्वाहकर्मसु
प्रासादध्वजदेवानां प्रतिष्ठासु प्रयत्नतः । इत्यादिकं महीदेव दानमभ्युदयात्मकम्
प्रजावृद्धिकरं भोगयशःस्वर्गसुखप्रदम् । अंत्यं चैव प्रवक्ष्यामि शृणु दानं द्विजोत्तम
कामस्य संक्षयं ज्ञात्वा जरया परिपीडितः । दद्याद्दानानि यत्नेन कुर्यादाशां न कस्यचित्
मृते च मयि मे पुत्रा जायाबांधवसोदराः । कथमेते भविष्यंति मां विना सुहृदो मम
अहं वित्तविहीनो वा कथं जीवन्पुनस्तथा । भविष्यामीति विज्ञाय न ददाति हि किंचन
आशापाशशतैर्बद्धो भाग्यादेव कुमायया । मृत्युं प्रयाति मूढात्मा रुदंति च ततः सुताः
दुःखेन पीडिताः किचिंन्मोहेनाकुलचेतसः । स्वल्पमल्पं च वा दानं कथंचित्कल्पयंति ते
न तत्रास्मिन्गते काले महादुःखगते सति । विस्मरंति तदा दानं लोभाद्वा न ददत्यपि
मृतोऽयं च पिता ज्ञात्वा स्नेहपाशो निवर्त्तते । योऽसौ मृतो महीदेव मम पाशैर्नियंत्रितः
तृष्णा क्षुधा समाक्रांतो बहुदुःखैः प्रपीडितः । पच्यते नरके घोरे चिरकालं न संशयः
तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः । कस्य पुत्राश्च पौत्राश्च कस्य भार्या धनं च वा
संसारे नास्तिकः कस्य स्वयं तस्मात्प्रदीयते । पानमन्नं च तांबूलमुदकं कांचनं तथा
वसनं गां च भूमिं च च्छत्रपात्राण्यनेकधा । फलानि भूमिदानानि विविधानि स्वशक्तितः
दातव्यानि महीदेव नात्र कार्या विचारणा । तीर्थानां लक्षणं विप्र प्रवक्ष्यामि तवाग्रतः
सुतीर्थानि इयं गंगा भाति पुण्या सरस्वती । रेवा च यमुना तापी नदी चर्मण्वती तथा
सरयू च वरा वेणी पूर्णा पापप्रणाशिनी । कावेरी कपिला चान्या विशल्या विश्वतारिणी
गोदावरी समाख्याता तुंगभद्रा च गंडकी । पापानां भीतिदा नित्यं नदी भीमरथी स्मृता
देविका कृष्णगंगा च अन्या याः सरितांवराः । एतास्तु पुण्यकालेषु संति तीर्थान्यनेकशः
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः । तत्र तत्रैव कर्त्तव्याः स्नानदानादिकाः क्रियाः
यदा न ज्ञायते नाम तस्य तीर्थस्य भो द्विज । तत्रेत्युच्चारणं कार्यं विष्णुतीर्थमिदं महत्
तीर्थस्य देवता विष्णुःस र्वत्रापि न संशयः । नारायणेति यन्नाम स्मरेत्तीर्थेषु साधकः