सप्तहस्तस्त्रिधा बद्धो वृषरूप नमोस्तु ते । सर्वयज्ञमयो धर्मस्त्वयि विग्रहविग्रहः
साक्षाद्दृष्टोसि लोकेश देव तुभ्यं नमोनमः । हृदिस्थः सर्वभूतानां पुण्यपापेक्षिता भवान्
तेन शास्ता च भूतानां दाता देव प्रशासिता । प्रवर्त्तको हि धर्मस्य देवदंडधरो भुवि
सर्वधर्ममयं सारमेकं वद सुनिश्चितम् । यम उवाच- परितुष्टोऽस्मि ते विप्र स्तोत्रेण च विशेषतः
तथाप्यागम धर्मेण मान्योसि मम सत्तम । यन्न कस्यचिदाख्यातं तद्गोप्यं परमं मम
सारमुद्धृत्य सर्वेषां यदेकं निश्चितं मया । महानिरयसंघातान्निर्वासनकरं परम्
अनाख्येयमपि ब्रह्मन्वक्ष्ये विनयतोषितः
स्युर्मोहाय चराचरस्य जगतस्ते ते पुराणागमास्तां तामेव हि देवतां परमिकां जल्पंतु कल्पे विधौ । सिद्धांते पुनरेक एव भगवान्विष्णुः समस्तागम-व्यापारेषु विवेकिनां व्यतिकरं नीतेषु निश्चीयते
भवो ब्रह्मा च विष्णुश्च त्रयमेव त्रयी मता । दीपोऽग्निर्वर्तिस्नेहैस्तु यथा विप्र तथा हरिः
समाराध्य हरिं भक्त्या गोलोकान्प्राप्नुयाच्छुभान् । आराधिते हरौ कामाः सर्वे करतले स्थिताः
दानमेव परं श्रेष्ठं सर्वपुण्येषु वै द्विज । दानेन नश्यते पापं सर्वं दानेन लभ्यते
नित्यं नैमित्तिकं काम्यमन्यदभ्युदयात्मकम् । अन्यं च परमं दानमिति पंचविधं स्मृतम्
प्रातर्मध्यापराह्णेषु त्रिषु कालेषु यत्नतः । यत्किंचिदपि दातव्यं नित्यमेव प्रकीर्तितम्
शून्यं दिनं न कर्तव्यमात्मार्थं हितमिच्छताम् । यस्मिन्कुले तु दत्तं यत्तत्रतत्रोपतिष्ठति
यः स्वयं भक्षयेन्मोहाददत्वा बुद्धिवर्जितः । उत्पादयाम्यहं रोगं तस्य भोगनिवारणम्
तेषु कार्येषु संतुष्टं बहुपीडाप्रदायकम् । मंदानलेन संयुक्तं द्वारं संतापकारकम्
त्रिषु कालेषु नो दत्तं ब्राह्मणेषु सुरेषु यैः । स्वयं तु भुंजते मिष्टं पापं तैस्तु महत्कृतम्
प्रायश्चित्तेन रौद्रेण तानहं परिशोधये । उपवासैर्महीदेव कायशोषकरादिकैः
चर्मकारो यथा चर्मकुंडस्योपरि निर्घृणे । शोधयेच्च कशाद्यैश्च कुद्रव्यं स्फोटयेद्यथा
तथाहं पापकर्तारं शोधयामि न संशयः । औषधीनां सुयोगैश्च कषायैः कटुकैर्ध्रुवम्
उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथा । अन्ये भुंजंति तस्याग्रे भोगानन्यान्मनोगतान्
किं करोमि समर्थश्च न दत्तं दानमुत्तमम् । महता रोगरूपेण तमेनं परिवारयेत्
नित्यकालस्य यद्दानमात्मानं पापिभिर्यथा । न दत्तं च महीदेव श्रद्धया निजशक्तितः
तथायातान्प्रधक्ष्येतानुपायैर्दारुणैः किल । नैमित्तिकं प्रवक्ष्यामि दानकालं तवाग्रतः
महापर्वणि संप्राप्ते तीर्थप्राप्तौ तथैव च । पितुः क्षयाहदिवसे वैशाखादिषु यत्नतः
मासेषु पुण्यकालेषु दानं नैमित्तिकं स्मृतम् । काम्यकालं प्रवक्ष्यामि यद्दानं फलदायकम्
व्रतादिकं समुद्दिश्य कामनाफलकल्पितम् । यत्कामं कथितं सम्यक्सर्वांगैरेव संगतम्
तस्य दानप्रभावेण भावनापरिभावितः । तादृक्फलं समश्नाति मानुषस्तत्प्रसादनात्
आभ्युदयं प्रवक्ष्यामि यच्च यज्ञादिषु स्मृतम् । जातकर्मादिकार्येषु मौञ्ज्याद्युद्वाहकर्मसु
प्रासादध्वजदेवानां प्रतिष्ठासु प्रयत्नतः । इत्यादिकं महीदेव दानमभ्युदयात्मकम्