सर्वयज्ञ तपोदानतीर्थसेवाधिकं फलम् । लभ्यते येन यद्यस्ति वैवस्वत तदादिश
अनुग्राह्यो ह्यहं देव यदि धर्मोपदेशतः । सर्वधर्मक्रियासारं तदेकं कृपया वद
पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । तथा तथैव संस्मृत्य कथितानि मनीषिभिः
कर्तुं तानि न शक्यंते देव प्रत्येकशो नरैः । सर्वपापहरं पुण्यमेकं चेदस्ति तद्वद
सूत उवाच-। इत्युक्त्वा ब्राह्मणश्रेष्ठो यमं धर्मस्वरूपिणम् । तुष्टाव प्रयतो भूत्वा सूक्ष्मधर्माभिकामुकः
ब्राह्मण उवाच- नमस्ते सर्वशमन नमस्ते जगतांपते । नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदायिने
धर्मशास्त्रस्वरूपाय धर्मराज नमोस्तुते । त्वया भूः पाल्यते देवाप्यंतरिक्षं च द्यौर्महः
जनस्तपस्तथासत्यं सर्वस्वं पाल्यते त्वया । न त्वया रहितं किंचिज्जगत्स्थावर जंगमम्
विद्यते त्वद्गृहीतं तु सद्यो नश्यति वै जगत् । त्वमात्मा सर्वभूतानां सतां सत्वस्वरूपवान्
राजसानां रजस्त्वं च तामसानां तमस्तथा । चतुष्पदां भवान्देव चतुःशृंगस्त्रिलोचनः
सप्तहस्तस्त्रिधा बद्धो वृषरूप नमोस्तु ते । सर्वयज्ञमयो धर्मस्त्वयि विग्रहविग्रहः
साक्षाद्दृष्टोसि लोकेश देव तुभ्यं नमोनमः । हृदिस्थः सर्वभूतानां पुण्यपापेक्षिता भवान्
तेन शास्ता च भूतानां दाता देव प्रशासिता । प्रवर्त्तको हि धर्मस्य देवदंडधरो भुवि
सर्वधर्ममयं सारमेकं वद सुनिश्चितम् । यम उवाच- परितुष्टोऽस्मि ते विप्र स्तोत्रेण च विशेषतः
तथाप्यागम धर्मेण मान्योसि मम सत्तम । यन्न कस्यचिदाख्यातं तद्गोप्यं परमं मम
सारमुद्धृत्य सर्वेषां यदेकं निश्चितं मया । महानिरयसंघातान्निर्वासनकरं परम्
अनाख्येयमपि ब्रह्मन्वक्ष्ये विनयतोषितः
स्युर्मोहाय चराचरस्य जगतस्ते ते पुराणागमास्तां तामेव हि देवतां परमिकां जल्पंतु कल्पे विधौ । सिद्धांते पुनरेक एव भगवान्विष्णुः समस्तागम-व्यापारेषु विवेकिनां व्यतिकरं नीतेषु निश्चीयते
भवो ब्रह्मा च विष्णुश्च त्रयमेव त्रयी मता । दीपोऽग्निर्वर्तिस्नेहैस्तु यथा विप्र तथा हरिः
समाराध्य हरिं भक्त्या गोलोकान्प्राप्नुयाच्छुभान् । आराधिते हरौ कामाः सर्वे करतले स्थिताः
दानमेव परं श्रेष्ठं सर्वपुण्येषु वै द्विज । दानेन नश्यते पापं सर्वं दानेन लभ्यते
नित्यं नैमित्तिकं काम्यमन्यदभ्युदयात्मकम् । अन्यं च परमं दानमिति पंचविधं स्मृतम्
प्रातर्मध्यापराह्णेषु त्रिषु कालेषु यत्नतः । यत्किंचिदपि दातव्यं नित्यमेव प्रकीर्तितम्
शून्यं दिनं न कर्तव्यमात्मार्थं हितमिच्छताम् । यस्मिन्कुले तु दत्तं यत्तत्रतत्रोपतिष्ठति
यः स्वयं भक्षयेन्मोहाददत्वा बुद्धिवर्जितः । उत्पादयाम्यहं रोगं तस्य भोगनिवारणम्
तेषु कार्येषु संतुष्टं बहुपीडाप्रदायकम् । मंदानलेन संयुक्तं द्वारं संतापकारकम्
त्रिषु कालेषु नो दत्तं ब्राह्मणेषु सुरेषु यैः । स्वयं तु भुंजते मिष्टं पापं तैस्तु महत्कृतम्
प्रायश्चित्तेन रौद्रेण तानहं परिशोधये । उपवासैर्महीदेव कायशोषकरादिकैः
चर्मकारो यथा चर्मकुंडस्योपरि निर्घृणे । शोधयेच्च कशाद्यैश्च कुद्रव्यं स्फोटयेद्यथा
तथाहं पापकर्तारं शोधयामि न संशयः । औषधीनां सुयोगैश्च कषायैः कटुकैर्ध्रुवम्