त्रिरात्रमपि ये विप्र द्वारवत्यां पुरि स्थिताः । मज्जंति गोमती तीरे धन्यास्ते केशवप्रियाः
नरनारायणावासे त्रिरात्रं ये समाश्रिताः । मर्त्यलोके च नंदायां धन्यास्ते केशवप्रियाः
षण्मासमुषिता विप्र पुरुषोत्तमसंनिधौ । ते नूनमच्युतात्मानो दृष्ट्वा स्युरघहारिणः
अनेक जन्मार्जितपुण्यतोये मज्जंति तोये मणिकर्णिकायाः । नमंति विश्वेशमवाप्यकाशीं ते वै मयापीह भवंति वंद्याः
पूजयित्वा हरिं ये तु भूमौ दर्भ तिलैः सह । तिलान्विकीर्य लोहं च दत्वा धेनुं पयस्विनीम्
ये मृता विधिवद्विप्र ते नराः स्वर्गगामिनः । उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे
निर्ममा निरहंकारा ये मृतास्तेऽपि नाकिनः । स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च
स्वभाग्येनोपजीवंति ते नराः स्वर्गगामिनः । श्लक्ष्णां वाणीं निराबाधां मधुरोपाय वर्जिताम्
स्वागतेनाभिभाषंते ते नराः स्वर्गगामिनः । शुभानामशुभानां च कर्मणां फलसंचये
विपाकज्ञाश्च ये विप्र ते नराः स्वर्गगामिनः । धनधर्मप्रवृत्तानां धर्ममार्गानुयायिनाम्
प्रोत्साहं वर्धयंते ये मोदंते दिवि ते नराः । हेमंते वह्निदो यश्च तथा ग्रीष्मे जलप्रदः
वर्षा स्वाश्रमदाता च स स्वर्गे मोदते चिरम् । पुण्यकालेषु सर्वेषु नित्य नैमित्तिकादिषु
भक्त्या यः कुरुते श्राद्धं स नूनं सुरलोकभाक्
दानं दरिद्रस्य विभोः क्षमित्वं यूनां तपो ज्ञानवतां च मौनम् । इच्छानिवृत्तिश्च सुखोचितानां दया च भूतेषु दिवं नयंति
द्विविधः कर्मसंबंधः पापपुण्यसमुद्भवः । सत्यमेव समाश्रित्य क्रियते ह्यत्र निर्णयः
तपोध्यानसमायुक्तं तारणाय भवांबुधेः । पापं तु पतनायोक्तं सत्यमेव न संशयः
बलेन परिचारेण शौर्येणाभियुतस्य च । पुण्यहीनस्य वै पुंसस्तद्बलादिव लीयते
उन्नता गिरि दुर्गेषु वृक्षाः संति सुपुष्टकाः । पतंति वातवेगेन समूलास्तु घना अपि
सत्यधर्मविहीनास्ते तथा यांति यमालयम् । सामान्यं सर्वजंतूंनां बलं धर्मस्तु केवलः
येन संतरते जंतुरिहलोके परत्र च । मया सर्वमिदं सम्यक्स्वर्गमार्ग प्रदायकम्
समासेन समाख्यातं किं भूयः श्रोतुमिच्छसि
ब्राह्मण उवाच- एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान् । न याति नरकं स्वर्गं तथा पापक्रिया रतः
क्रतुभिर्विविधैरिष्टैर्व्रत दान जपादिभिः । सत्येनाचारकुशलैः स्वर्गसौख्यमवाप्यते
विद्याचारधनोपेतैर्ऋषिभिर्वेदपारगैः । प्राप्यते पुण्ययोगेन यज्ञैर्नाकस्ततः क्वचित्
वित्तेन च विना दानं बहुदातुं न शक्यते । विद्यमान धनेनापि कुटुंबासक्तचेतसा
अग्निहोत्रादयो धर्मा विशेषेण कलौ युगे । दुष्करा दानधर्मोऽपि दुष्करो भगवन्मतः
अल्पायासेन धर्मेण लभ्यते धर्मसंचयः । तन्मे विशेषतो ब्रूहि धर्माधर्मप्रदर्शक
तदेकं कथ्यतां धर्मं सर्वधर्मोत्तमोत्तमम् । कृतेनैकेन येनेह सर्वपापक्षयो भवेत्
धनं धान्यं यशो धर्ममायुर्येनाभि वर्त्तते । मर्त्यलोकेऽपि सख्यं स्यात्स्वर्गो येनाक्षयो भवेत्
साक्षान्नारायणो येन भक्तानामभयप्रदः । तुष्येदस्यप्रसादेन कामः करतले स्थितः