प्रियंकराश्च बालानां स्वर्गलोकं व्रजंति ते । मासिमास्येकदिवसे दर्शे श्राद्धव्रता नराः
तृप्यंति पितरो येषां ते धन्याः स्वर्गगामिनः । भोजनेषूपपन्नेषु भोज्यं यच्छंति सादरात्
अभिन्नमुखरागेण शिष्टास्ते स्वर्गगामिनः
ये भक्तिमंतो मधुसूदनस्य नारायणस्याखिलनायकस्य । सत्येन हीना रजसापि युक्ता गच्छंति ते नाकमनंतपुण्याः
वितस्तां यमुनां सीतां पुण्यां गोदावरीं नदीम् । सेवंते ये शुभाचाराः स्नानदानपरायणाः
न ते पश्यंति पंथानं नरकस्य कदाचन । ये नर्मदायामिह शर्मदायां मज्जंति तुष्यंत्यपि दर्शनेन
विधूय पापानि महेशलोकं गच्छंति ते तत्र चिरं रमंते
स्नाताश्चर्मनदी तीरे त्रिरात्रं नियता नराः । व्यासाश्रमे विशेषेण ते नरा नाकिनः स्मृताः
गंगाजले प्रयागे च केदारे पुष्करे तथा । व्यासाश्रमे प्रभासे च मृतास्ते विष्णुगामिनः
द्वारवत्यां कुरुक्षेत्रे योगाभ्यासेन वा मृताः । हरिरित्यक्षरं वक्त्रे येषां ते न पुनर्भवाः
त्रिरात्रमपि ये विप्र द्वारवत्यां पुरि स्थिताः । मज्जंति गोमती तीरे धन्यास्ते केशवप्रियाः
नरनारायणावासे त्रिरात्रं ये समाश्रिताः । मर्त्यलोके च नंदायां धन्यास्ते केशवप्रियाः
षण्मासमुषिता विप्र पुरुषोत्तमसंनिधौ । ते नूनमच्युतात्मानो दृष्ट्वा स्युरघहारिणः
अनेक जन्मार्जितपुण्यतोये मज्जंति तोये मणिकर्णिकायाः । नमंति विश्वेशमवाप्यकाशीं ते वै मयापीह भवंति वंद्याः
पूजयित्वा हरिं ये तु भूमौ दर्भ तिलैः सह । तिलान्विकीर्य लोहं च दत्वा धेनुं पयस्विनीम्
ये मृता विधिवद्विप्र ते नराः स्वर्गगामिनः । उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे
निर्ममा निरहंकारा ये मृतास्तेऽपि नाकिनः । स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च
स्वभाग्येनोपजीवंति ते नराः स्वर्गगामिनः । श्लक्ष्णां वाणीं निराबाधां मधुरोपाय वर्जिताम्
स्वागतेनाभिभाषंते ते नराः स्वर्गगामिनः । शुभानामशुभानां च कर्मणां फलसंचये
विपाकज्ञाश्च ये विप्र ते नराः स्वर्गगामिनः । धनधर्मप्रवृत्तानां धर्ममार्गानुयायिनाम्
प्रोत्साहं वर्धयंते ये मोदंते दिवि ते नराः । हेमंते वह्निदो यश्च तथा ग्रीष्मे जलप्रदः
वर्षा स्वाश्रमदाता च स स्वर्गे मोदते चिरम् । पुण्यकालेषु सर्वेषु नित्य नैमित्तिकादिषु
भक्त्या यः कुरुते श्राद्धं स नूनं सुरलोकभाक्
दानं दरिद्रस्य विभोः क्षमित्वं यूनां तपो ज्ञानवतां च मौनम् । इच्छानिवृत्तिश्च सुखोचितानां दया च भूतेषु दिवं नयंति
द्विविधः कर्मसंबंधः पापपुण्यसमुद्भवः । सत्यमेव समाश्रित्य क्रियते ह्यत्र निर्णयः
तपोध्यानसमायुक्तं तारणाय भवांबुधेः । पापं तु पतनायोक्तं सत्यमेव न संशयः
बलेन परिचारेण शौर्येणाभियुतस्य च । पुण्यहीनस्य वै पुंसस्तद्बलादिव लीयते
उन्नता गिरि दुर्गेषु वृक्षाः संति सुपुष्टकाः । पतंति वातवेगेन समूलास्तु घना अपि
सत्यधर्मविहीनास्ते तथा यांति यमालयम् । सामान्यं सर्वजंतूंनां बलं धर्मस्तु केवलः
येन संतरते जंतुरिहलोके परत्र च । मया सर्वमिदं सम्यक्स्वर्गमार्ग प्रदायकम्