स्वाध्यायनिरता नित्यं ते नराः स्वर्गगामिनः । सर्वान्क्लेशान्परित्यज्य विष्णुमेव स्तुवंति ये
स्वधर्मनिरता धीरास्ते नराः स्वर्गगामिनः । वासुदेवजपासक्तानपि पापकृतो जनान्
नोपसर्पन्ति तान्विप्र यमदूताश्च दारुणाः । नान्यत्पश्यन्ति जंतूनां विहाय हरिकीर्तनम्
सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तम । ये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च
त्यक्तदानफला ये च ते नराःस्वर्गगामिनः । वर्जयंति दिवास्वापं नराः सर्वसहाश्च ये
पर्वण्याश्रयभूता ये ते मर्त्याः स्वर्गगामिनः । द्विषतामपि ये दोषान्न वदंति कदाचन
कीर्तयंति गुणांश्चैव ते नराः स्वर्गगामिनः । ये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात्
प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनः । प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च
आदरंति प्रतीता ये ते नराः स्वर्गगामिनः । यस्मिन्कस्मिन्कुले जाता दयावंतो यशस्विनः
सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः । ये पूताः परदारांश्च कर्मणा मनसा गिरा
रमयंति न सत्वस्थास्तेनराः स्वर्गगामिनः । सदा कर्मयथोक्तेन कुर्वंति विहितानि च
आत्मशक्तिं च विज्ञाय ते नराः स्वर्गगामिनः । मनो वाक्कायिके धर्मे श्रद्धां यः कुरुते सदा
साधूनां संमतो यश्च स भवेद्देवतातिथिः । वचोवेगं मनोवेगं यो वेगमुदरोद्भवम्
उपस्थवेगं सहते स स्वर्गी जायते नरः । येषां गुणेषु संतोषो वाणी येषां श्रुतं प्रति
परमार्थे मतिर्येषां ते शिष्टाः स्वर्गगामिनः । व्रतं रक्षंति ये कोपाच्छ्रियं रक्षंति मत्सरात्
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः । मतिं रक्षंति ये लोभान्मनो रक्षंति कामतः
धर्मं रक्षंति दुःसंगात्ते नराः स्वर्गगामिनः । एकादश्यां च विधिवदुपवासपरायणाः
शुक्लेऽसिते च ये विप्र ते नराः स्वर्गगामिनः । मातेव सर्वबालानामौषधं रोगिणा मिव
रक्षार्थं सर्वलोकानां निर्मितैकादशी तिथिः । एकादशी समं किंचित्पादत्राणं न विद्यते 5.96.
तामुपोष्य विधानेन पुरुषाः स्वर्गगामिनः । एकादशेन्द्रियैः पापं यत्कृतं भवति द्विज
नरो निर्द्धूय तत्तूर्णं प्रीतः स्वर्गतिमान्भवेत् । अश्वमेधसहस्राणि राजसूयशतानि च
एकादश्युपवासस्य कलां नार्हंति षोडशीम् । एकतः क्रतवः सर्वे सर्वतीर्थतपांसि च
महादानादिदानानि व्रतं वैष्णवमेकतः । वैष्णवव्रतजो धर्मो धर्मो यज्ञादिसंभवः
एकत्र तुलितौ धात्रा तत्र पूर्वो भवेद्गुरुः । हरिवासर भक्तानामच्युतानंतभाषिणाम्
नाहं शास्ता विशेषेण तेभ्यो विप्र बिभेम्यहम् । येषां पुत्रश्च पौत्रश्च एकादश्यामुपोषितः
सहात्मना स पुरुषाञ्छतमुद्धरते बलात् । उपोषणं ततः कुर्यात्पक्षयोरुभयोरपि
एकादश्यां स पुरुषो भुक्तिमुक्त्येकभाजनम् । जया च विजया चैव जयंती पापनाशिनी
त्रिस्पृशा वंजुली चैव पक्षसंवर्धिनी वरा । तिलदुग्धा परा ज्ञेया अखंडद्वादशी तथा
मनोरथाख्या च परा भीमद्वादशिका तथा । इत्येवमादयो भेदा द्वादश्याः संत्यनेकशः
व्रतेष्वेतेषु ये शक्ता ज्ञेयास्ते ब्रह्मणि स्थिताः । श्रोतारो धर्मशास्त्राणां धर्मप्रत्यय संगताः