हैतुको नास्तिको यस्तु स नरो निरयालयः । मनसा योऽन्यभावेन वचसा चान्यथा वदेत्
हृदयं कलुषं कुर्यात्स नरो नरके वसेत् । अवमन्य च ये यांति भगवत्कीर्तनं नराः
ते यांति नरकं घोरं तेन पापेन कर्मणा । पश्यंतो भगवद्द्वारं नामशास्त्र परिच्छदम्
अकृत्वा तत्प्रणामादि ते यांति नरकौकसः । विनापराधेन नराः कृत्वा पत्न्यधिवेदनम्
त्यजंति सुकलत्रं ये ते यांति नरके नराः । न शृणोति गुरोर्वाक्यं धर्मशास्त्रं च यो नरः
परेषां चेतसः क्लेशकारी निरयगो भवेत् । पश्यतां बंधु बालानां प्रकर्षी मिष्टमश्नुते
स याति नरकं घोरं केवलोदरपूरकः । तुला मकर मेषेषु प्रातः स्नानं न यश्चरेत्
नद्यादिषु च नास्तिक्यस्तस्य स्यान्नरकालयः । वैष्णवं जनमालोक्य नाभ्युत्थानं करोति यः
प्रणयादरतो विप्र स नरो नरकातिथिः । काष्ठैर्वा शंकुभिर्वापि शूलैरश्मभिरेव च
ये मार्गांश्चैव रुंधंति ते वै निरयगामिनः । आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम्
न चिन्तयंति ये विष्णुं ते वै निरयगामिनः । क्षेत्रवृत्ति गृहच्छेदं प्रीतिच्छेदं च ये नराः
आशाच्छेदं च कुर्वंति ते नरा नरकौकसः । आगतान्भोजनार्थं च ब्राह्मणान्वृत्तिकर्शितान्
यः परीक्षेत मूढात्मा स ज्ञेयो नरकातिथिः । अनाथं वैष्णवं दीनं रोगार्तं वृद्धमेव च
नानुकंपंति ये मूढास्ते वै निरयगामिनः । नियमांस्तु समादाय ये पश्चादजितेंद्रियाः
विलोपयंति तान्भूयस्ते वै निरयगामिनः । शृणु विप्र यथा यांति नराः स्वर्गं दयालवः
समासेनैव वक्ष्यामि किंचित्ते गौरवादहम् । येऽर्चयंति हरिं देवंजिष्णुं विष्णुं सनातनम्
नारायणमजं कृष्णं विष्वक्सेनं चतुर्भुजम् । ध्यायंति पुरुषं दिव्यमच्युतं ये स्मरंति च
लभंते तेऽच्युतस्थानं श्रुतिरेषा पुरातनी । इदमेवहि मांगल्यमिदमेव धनार्जनम्
जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम् । कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः
दुरितानि विलीयंते तमांसीव दिनोदये । गाथां गायंति ये नित्यं वैष्णवीं श्रद्धयान्विताः
स्वाध्यायनिरता नित्यं ते नराः स्वर्गगामिनः । सर्वान्क्लेशान्परित्यज्य विष्णुमेव स्तुवंति ये
स्वधर्मनिरता धीरास्ते नराः स्वर्गगामिनः । वासुदेवजपासक्तानपि पापकृतो जनान्
नोपसर्पन्ति तान्विप्र यमदूताश्च दारुणाः । नान्यत्पश्यन्ति जंतूनां विहाय हरिकीर्तनम्
सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तम । ये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च
त्यक्तदानफला ये च ते नराःस्वर्गगामिनः । वर्जयंति दिवास्वापं नराः सर्वसहाश्च ये
पर्वण्याश्रयभूता ये ते मर्त्याः स्वर्गगामिनः । द्विषतामपि ये दोषान्न वदंति कदाचन
कीर्तयंति गुणांश्चैव ते नराः स्वर्गगामिनः । ये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात्
प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनः । प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च
आदरंति प्रतीता ये ते नराः स्वर्गगामिनः । यस्मिन्कस्मिन्कुले जाता दयावंतो यशस्विनः
सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः । ये पूताः परदारांश्च कर्मणा मनसा गिरा