यम उवाच- इह क्षीणायुषां पुंसां वासः पुण्यवतां भवेत् । अयं वै धर्मराजस्य लोको धर्मः प्रकीर्तितः
सौख्यभूमिरियं सर्वा धर्मराजोऽहमीश्वरः । पुण्यापुण्यानुसारेण जंतूनां सुखदुःखदः
पापिनां यमरूपोऽस्मि नृणां निरयदायकः । तथा पुण्यवतां सौख्य स्वर्गदो धर्म मूर्तिमान्
गच्छ विप्र त्वमद्यैव निलयं स्वं यथागतः । अद्यापि दशवर्षाणामायुस्ते परिवर्तते
क्षये तवायुषः प्राप्तिर्लोकस्यास्य भविष्यति । प्रष्टव्यं च त्वया ह्यन्यत्पृच्छस्व प्रब्रवीमि ते
ब्राह्मण उवाच- यत्कृत्वा सुमहत्पुण्यं स्वर्गः स्याद्ब्रूहि तन्मम । सर्वस्य हि प्रमाणंत्वं धर्माधर्मविनिश्चये
यदि देव मया सम्यग्गंतव्यं निजमंदिरे । तद्ब्रूहि कर्मणा केन पतंति नरके नराः
व्रजंति केन वै स्वर्गं तत्सर्वं कृपया वद । यम उवाच- कर्मणा मनसा वाचा ये धर्मविमुखा नराः
विष्णुभक्तिविहीना ये ते वै निरयगामिनः । पश्यंति भेदबुद्ध्या ये ब्रह्माणं शंकरं हरिम्
विरक्ता विष्णुविद्यासु नरा निरयगामिनः । कुलदेशोचितं कर्म यस्त्यक्त्वान्यत्समाचरेत्
कामाद्वा यदि वा मोहात्स याति नरकं नरः । अयाज्ययाजकश्चैव याज्यानां च विवर्जकः
विरतो विष्णुविद्यासु स भुंक्ते नरकान्बहून् । अदत्वा पितृदेवेभ्यो विप्रेभ्यो मर्त्यबंधुषु
सधनो म्रियते पापः स याति नरकान्बहून् । सर्वाण्यन्नानि सिद्धानि पाकभेदं करोति यः
अवैश्वदेवं भुंजीत स याति नरकं चिरम् । बहुद्रोहेण भूतानां येऽजयंति धनं द्विज
धनवंतो निरयगा दांभिका दुःखभागिनः । नास्तिक्यादथ वा लोभान्मोहात्काले यथोदिते
भक्त्या न श्राद्धदा ये स्युः पच्यंते नरकेषु ते । दीयमानस्य वित्तस्य ब्राह्मणेभ्यस्तु पापकृत्
विघ्नमाचरते योऽसौ नरो निरयगो भवेत् । सामान्य दक्षिणां लब्ध्वा गृह्णात्येको विमोहतः
नास्तिक्यभावनिरतो नरः स्यान्नरकालये । असहिष्णुतया तस्य गुणानां कारणं भवेत्
महत्पापं समुत्पन्नं कारणं नरकस्य तत् । निर्दोषां सुहृदां भार्यां त्यजन्कालेन याति यः
न वहेत यशस्तेषां स नरो नरके पतेत् । अधर्मं धर्ममिति यो वदन्मोहवशं गतः
हैतुको नास्तिको यस्तु स नरो निरयालयः । मनसा योऽन्यभावेन वचसा चान्यथा वदेत्
हृदयं कलुषं कुर्यात्स नरो नरके वसेत् । अवमन्य च ये यांति भगवत्कीर्तनं नराः
ते यांति नरकं घोरं तेन पापेन कर्मणा । पश्यंतो भगवद्द्वारं नामशास्त्र परिच्छदम्
अकृत्वा तत्प्रणामादि ते यांति नरकौकसः । विनापराधेन नराः कृत्वा पत्न्यधिवेदनम्
त्यजंति सुकलत्रं ये ते यांति नरके नराः । न शृणोति गुरोर्वाक्यं धर्मशास्त्रं च यो नरः
परेषां चेतसः क्लेशकारी निरयगो भवेत् । पश्यतां बंधु बालानां प्रकर्षी मिष्टमश्नुते
स याति नरकं घोरं केवलोदरपूरकः । तुला मकर मेषेषु प्रातः स्नानं न यश्चरेत्
नद्यादिषु च नास्तिक्यस्तस्य स्यान्नरकालयः । वैष्णवं जनमालोक्य नाभ्युत्थानं करोति यः
प्रणयादरतो विप्र स नरो नरकातिथिः । काष्ठैर्वा शंकुभिर्वापि शूलैरश्मभिरेव च
ये मार्गांश्चैव रुंधंति ते वै निरयगामिनः । आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम्