वैशाखे मासि यो विप्रान्भोजयेद्भक्तितत्परः । सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया
यच्छंति तत्र मधुराधिकभोजनानि ये वायवाशन तिलोदक भोजनानि । छत्रांबराणि चरणोचितरक्षणानि धन्यास्त एव परितोषकराहि विष्णोः
विशेषादिह दातव्यास्तिला मधुसमन्विताः । धर्माय बृहते दीर्घ दुरितक्षय हेतवे
एवंकृते तु यत्पुण्यं प्राप्यते मनुजैश्च तैः । तत्कैर्गणयितुं शक्यं वर्षकोटिशतैरपि
पुत्रपौत्रादिसंपत्ति दीर्घायूंषि यथेप्सितम् । इहाप्नोति परत्रापि मामेव प्रतिपद्यते
अनेकजन्मार्जित पातकावली विलीयते माधव मज्जनेन । जनस्य तत्रोषसि पुण्यतीर्थे यथाविधानं श्रयते तथा वा
यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत् । स करस्थं महारत्नं हित्वा लोष्टं हि याचते
सूतउवाच- एवं स भगवान्पूर्वमादिदेवो वदद्विभुः । माधवं मासमुद्दिश्य जगत्यां जगतीधरः
किमत्र बहुनोक्तेन न तदस्ति महीसुराः । यदप्राप्यं भवेन्मासि माधवे माधवार्चनात्
शृणुध्वं च पुरावृत्तमिहार्थे परमाद्भुतम् । ब्राह्मणस्य च संवादं यमस्य च महात्मनः
मध्यदेशे महाग्रामो ब्राह्मणानां बभूव ह । गंगायमुनयोर्मध्ये यामुनस्य गिरेरधः
विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा । अथ प्राह यमः कंचित्पुरुषं कृष्णपिंगलम्
रक्ताक्षमूर्द्ध्वरोमाणं काकजंघाक्षिनासिकम् । गच्छ त्वं भो महाग्रामं गत्वा ब्राह्मणमानय
वसिष्ठगोत्रसंभूतं नामतो यज्ञदत्तकम् । शमे निविष्टं विद्वांसं यज्ञकर्मविशारदम्
नचान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः । सहितादृग्गुणस्तेन तुल्योऽध्ययन जन्मना
आकृत्या च तथा चिह्नैः समस्तेनैव सत्तमः । तमानय यथोद्दिष्टा पूजा कार्या हि तस्य मे
स गत्वा प्रतिकूलं तु चकार यमशासनम् । तमेव मानयामास प्रतिषिद्धो यमेन यः
तस्मै यमः समुत्थाय पूजां कृत्वा च धर्मवित् । प्रोवाच नीयतामेष सोऽन्य आनीयतामिति
सूत उवाच- एवमुक्ते तु वचने धर्मराजेन स द्विजः । उवाच धर्मराजं तं निर्विण्णो गमनाय वै
ब्राह्मण उवाच- कस्मादहमिहानीतः कस्मात्प्रेरयसे पुनः । गंतुं नैवोत्सहे तत्र मर्त्यलोकं पुनः प्रभो
यम उवाच- इह क्षीणायुषां पुंसां वासः पुण्यवतां भवेत् । अयं वै धर्मराजस्य लोको धर्मः प्रकीर्तितः
सौख्यभूमिरियं सर्वा धर्मराजोऽहमीश्वरः । पुण्यापुण्यानुसारेण जंतूनां सुखदुःखदः
पापिनां यमरूपोऽस्मि नृणां निरयदायकः । तथा पुण्यवतां सौख्य स्वर्गदो धर्म मूर्तिमान्
गच्छ विप्र त्वमद्यैव निलयं स्वं यथागतः । अद्यापि दशवर्षाणामायुस्ते परिवर्तते
क्षये तवायुषः प्राप्तिर्लोकस्यास्य भविष्यति । प्रष्टव्यं च त्वया ह्यन्यत्पृच्छस्व प्रब्रवीमि ते
ब्राह्मण उवाच- यत्कृत्वा सुमहत्पुण्यं स्वर्गः स्याद्ब्रूहि तन्मम । सर्वस्य हि प्रमाणंत्वं धर्माधर्मविनिश्चये
यदि देव मया सम्यग्गंतव्यं निजमंदिरे । तद्ब्रूहि कर्मणा केन पतंति नरके नराः
व्रजंति केन वै स्वर्गं तत्सर्वं कृपया वद । यम उवाच- कर्मणा मनसा वाचा ये धर्मविमुखा नराः
विष्णुभक्तिविहीना ये ते वै निरयगामिनः । पश्यंति भेदबुद्ध्या ये ब्रह्माणं शंकरं हरिम्
विरक्ता विष्णुविद्यासु नरा निरयगामिनः । कुलदेशोचितं कर्म यस्त्यक्त्वान्यत्समाचरेत्