अकारश्चाप्युकारश्च मकारश्च ततः परम् । वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम्
अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते । मकारस्त्वनयोर्दासः पंचविंशः प्रकीर्तितः
वासुदेवस्वरूपं तदकारेणोच्यतै बुधैः । उकारेण श्रियो देव्या रूपं मुनिभिरुच्यते
मकारेणोच्यते जीवः पंचविंशोदितः पुमान् । भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च
ट वर्गेण तवर्गेण ज्ञानं धादयस्तथा । मनः पकारेणैवोक्तं फकारेण त्वहंकृतिः
बकारेण भकारेण महान्प्रकृतिरुच्यते । आत्मा तु स मकारः स्यात्पंचविंशः प्रकीर्तितः
देहेंद्रियमनः प्राणादिभ्योन्योऽनन्यसाधनः । भगवच्छेषभूतोऽसौ मकाराख्यः स चेतनः
अवधारणवाच्येवमुकारः कैश्चिदुच्यते । श्रीतत्वमपि तत्पक्षे वकारेणैव चोच्यते
भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी । आकारेणोच्यते विष्णुः कल्याणगुणसागरः
श्रीशः सर्वात्मनां शेषो जगद्बीजं परः पुमान् । जगत्कर्त्ता जगद्भर्त्ता ईश्वरो लोकबांधवः
जगतामीश्वरी नित्या विष्णोरनपगामिनी । माता सर्वस्य जगतः पत्नी विष्णोर्मनोरमा
जगदाधारभूता श्रीरुकारेणात्र चोच्यते । मकारेण तयोर्दासः क्षेत्रज्ञः प्रोच्यते बुधैः
ज्ञानाश्रमो ज्ञानगुणश्चेतनः प्रकृतेः परः । न जडो निर्विकारश्च एकरूप स्वरूपभाक्
अणुर्नित्यो व्याप्तिशीलश्चिदानंदात्मकस्तथा । अहमर्थोऽव्ययः क्षेत्री भिन्नरूपं सनातनः
अदाह्योच्छेद्यो ह्यक्लैद्यस्त्वशोष्योक्षर एव च । एवमादिगुणोपेतश्शेषभूतः परस्य वै
मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा । दासभूतो हरेरेव नान्यस्य तु कदाचन
एवं दासत्वमेवास्य मध्यमेवावधार्यते । इत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयानघे
विवृतिः प्रणवस्यार्थ मन्त्रशेषेण वै शुभे । परस्य दासभूतस्य स्वातन्त्र्यं नेह विद्यते
तस्मान्महदहंकारौ मनसा विनिवर्त्तयेत् । स्वोपायबुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते
अहंकृतिर्मकारः स्यान्नकारस्तन्निषेधकः । तस्मात्तु मनसैवास्य अहंकारविमोचनम्
मनसा सर्वसिद्धिः स्यादन्यथा नाशमाप्नुयात् । नमसा सहितं किंचित्तदहंकार उच्यते
अहंकारेण युक्तस्य सुखं किंचिन्न विद्यते । अहंकारविमूढात्मा अंधे तमसि मज्जति
तस्मान्न मनसा चात्र स्वातंत्र्यं प्रतिषिध्यते । भगवत्परतंत्रोऽसौ तदायत्तश्च जीवति
तस्मात्साधनकर्तृत्वं चेतनस्य न विद्यते । ईश्वरस्यैव संकल्पाद्वर्त्तते स्वचराचरम्
तस्मात्स्वसामर्थ्यविधिं त्यजेत्सर्वमशेषतः । ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते
तस्मिन्न्यस्तभरः श्रीशे तत्कर्मैव समाचरेत् । परमात्मा हरिस्स्वामी स्वमहं तस्य सर्वदा
इच्छाया विनियोक्तव्यस्तस्यैवात्मेश्वरस्य हि । इत्येवं मनसा त्यक्तमहंता ममतोर्जितम्
देहेष्वहं मतिर्मूलं संसृतौ कर्मबंधने । तस्मान्महदहंकारौ मनसा वर्जयेद्बुधः
अथ नारायणपदं वक्ष्यामि गिरजे शुभे । नारा इत्यात्मनां संघास्तेषां गतिरसौ पुमान्
त एव चायनं तस्य तस्मान्नारायणः स्मृतः । सर्वं हि चिदचिद्वस्तु श्रूयते दृश्यते जगत्