वद भूयोऽपि भूयिष्ठं पिबामस्तावकं वचः । पायंपायं न तृप्यामो वयं सूत तदुत्तमम्
सूत उवाच- अत्राप्युदाहरंतीममितिहासं पुरातनम् । संवादमादिलोकस्य जगतां जगदीशितुः
षट्सहस्राणिचोच्छ्रायो विस्तारेण पुनस्त्रयम् । एवं नवसहस्राणि योजनानां विधाय च
वामया दंष्ट्रया गृह्य उद्धृतादौ वसुंधरा । दिव्यवर्षसहस्रं वै दंष्ट्रया धारिता मही
धर्माख्यानप्रसंगेन सोवाच विनयाद्विभुम् । पृथिव्युवाच- एते द्वादश मासा वै षष्टिर्दिनशतत्रयम्
एषां किमुत्तमं पुण्यं प्रियं च तव केशव । पवित्रः कार्तिको मासस्तुलासंस्थे दिवाकरे
मकरस्थे रवौ मासः पुराणे पावनः स्मृतः । मेषस्थे माधवो मासो भास्करे पठ्यते बुधैः
मार्गशीर्षोऽपि मासानां पावनः परिकीर्तितः । एवं मासाः पवित्रास्ते वासराः केपि कीर्तिताः
युगादयो युगांताश्च तथा कल्पादयोऽपि च । सर्वेभ्योऽप्यधिकं मासमेतेभ्यो वद पावनम्
सर्वयज्ञमय श्रीमन्नेकं निश्चित्य मे वद । वराह उवाच- विधिनाविधिनाचैव ये यजंति नराधमाः
माधवे मासि मां भक्त्या तैश्च पूज्योऽस्म्यहं सदा । हिरण्याक्षो वरारोहे माधवे तु मधुर्हत
आदिदैत्यावुभावेतौ हत्वा त्वं तु समुद्धृता । त्रेतायुगे त्रयी धर्मो ज्ञानवर्णव्यवस्थितिः
माधवे मासि संभूता तेन मे माधवःप्रियः । त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे
प्रवृत्तं च त्रयी धर्माः प्रवृत्तास्ते प्रवर्द्धिताः । अक्षया सोच्यते लोके तृतीया हरिवल्लभा
स्नाने दानार्चने श्राद्धे जपे पूर्वजतर्प्पणे । येऽर्चयंति यवैर्विष्णुं श्राद्धं कुर्वंति यत्नतः
तेषां ददाम्यहं सर्वं यन्मनोऽभीष्टमुत्तमम् । ये ददंत्यपि दानानि धन्यास्ते धार्मिका नराः
ये यजंति हरेर्नित्यमध्वरैर्विविधैरपि । माधवे यजते यो मां तेभ्यस्तदधिकं फलम्
स्नानं दानं जपो होमस्तपो यज्ञ व्रतादिकम् । वैशाखे यत्कृतं देवि तस्य पुण्यफलं शृणु
मन्वंतराणां कोट्यस्तु दशपंच च सप्त च । मत्सान्निध्यगतास्तेपि तिष्ठंति भयवर्जिताः
यद्यपि स्युर्ग्रहाः सर्वे क्रूरा जन्मव्ययाष्टकाः । प्रातःस्नानेन वैशाखे सर्वे सौम्या भवंति ते
वैशाखे मासि यो विप्रान्भोजयेद्भक्तितत्परः । सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया
यच्छंति तत्र मधुराधिकभोजनानि ये वायवाशन तिलोदक भोजनानि । छत्रांबराणि चरणोचितरक्षणानि धन्यास्त एव परितोषकराहि विष्णोः
विशेषादिह दातव्यास्तिला मधुसमन्विताः । धर्माय बृहते दीर्घ दुरितक्षय हेतवे
एवंकृते तु यत्पुण्यं प्राप्यते मनुजैश्च तैः । तत्कैर्गणयितुं शक्यं वर्षकोटिशतैरपि
पुत्रपौत्रादिसंपत्ति दीर्घायूंषि यथेप्सितम् । इहाप्नोति परत्रापि मामेव प्रतिपद्यते
अनेकजन्मार्जित पातकावली विलीयते माधव मज्जनेन । जनस्य तत्रोषसि पुण्यतीर्थे यथाविधानं श्रयते तथा वा
यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत् । स करस्थं महारत्नं हित्वा लोष्टं हि याचते
सूतउवाच- एवं स भगवान्पूर्वमादिदेवो वदद्विभुः । माधवं मासमुद्दिश्य जगत्यां जगतीधरः
किमत्र बहुनोक्तेन न तदस्ति महीसुराः । यदप्राप्यं भवेन्मासि माधवे माधवार्चनात्
शृणुध्वं च पुरावृत्तमिहार्थे परमाद्भुतम् । ब्राह्मणस्य च संवादं यमस्य च महात्मनः