क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु । निरामयोऽसि चांगेषु धर्मं पालयसे सदा
एवमुक्त्वा महाप्राज्ञः पुनः प्राह महीसुरम् । किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम
नारद उवाच- एवं संभाष्य तं विप्रं विरराम शुभं वचः । ततो विप्रो महाभागो वसिष्ठं मुनिपुंगवम्
स होवाच महात्मानं वसिष्ठं तपतां वरम् । भगवञ्छ्रूयतां वाक्यं विच्छेदय द्विजोत्तम
दारिद्र्यं केन भावेन पुत्रसौख्यं कथं नहि । एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे
महामोहेन संमुग्धः प्रियया बोधितो द्विज । तयाहं प्रेषितस्तात तव पार्श्वं समागतः
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् । मुक्तिदाता भव स्वत्वं ममसंसारबंधनात्
वसिष्ठ उवाच- पुत्रा मित्रास्तथा भ्राता अन्ये स्वजनबांधवाः । पंचभेदास्तु संबंधाः पुरुषस्य भवंति ते
तेते सुमनसा प्रोक्ताः पूर्वमेव तवाग्रतः । ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् । पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा
शुद्धिमाञ्ज्ञानसंपन्नस्तपस्वी वाग्विदां वरः । सर्वकर्मसुसंवीतो वेदाध्ययनतत्परः
सर्वशास्त्रप्रवेदी च देवब्राह्मणपूजकः । याज्ञिकः सर्वयज्ञानां दाता त्यागी प्रियंवदः
विष्णुध्यानपरो नित्यं शांतोदांतः सुहृत्सदा । पितृमातृपरो नित्यं सर्वस्वजनवत्सलः
कुलस्य तारको विद्वान्स्वकुलं परिपोषकः । एवंगुणैस्तु संयुक्तः सुपुत्रः सुखदायकः
अन्ये संबंधयुक्ताश्च शोकसंतापकारकाः । उदासीनेन किं कार्यं फलहीनेन तेऽनघ
आयांति यांति ते सर्वे दुःखं दत्वा सुदारुणम् । पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम
पूर्वजन्मकृतं कर्म यत्त्वया परिपालितम् । तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः
भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा । कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः
एकभार्यः सदा द्वेषी बहुपुत्रो ह्यदत्तवान् । धर्मं नैव विजानासि सत्यं च परिनिष्ठितम्
दानं नैव त्वया दत्तं शास्त्रं नैव परिश्रुतम् । कृतं नैव त्वया तीर्थं न च यात्रा महामते
एवं कृतस्त्वया विप्र कृषिमार्गः पुनःपुनः । पशूनां पालनं पूर्वंग च्छंश्चैव द्विजोत्तम
महिषीणां तथाश्वीनां पालनं च पुनःपुनः । एवं पूर्वं कृतं कर्म त्वयैव च द्विजोत्तम
विपुलं तु धनं तद्वल्लोभेन परिसंचितम् । तस्य व्ययस्तु पुण्येन न कृतस्तु त्वया कदा
पात्रे दानं न दत्तं हि दृष्ट्वा वा दुर्बलं च तत् । कृषिं कृत्वा न दत्तं तु भवता धनमेव हि
गोमयं हि त्विदं सर्वं पशूनां संचयं च वै । विक्रयित्वा धनं विप्र संचितं विपुलं त्वया
तक्रं घृतं तथा क्षीरं विक्रीतं सततं दधि । दुष्कालश्चिंतितो विप्र मोहितो विष्णुमायया
कृत्वा महार्घमेवैतद्धनं ब्राह्मणसत्तम । निर्दयेन त्वया दानं न दत्तं तु तदा किल
देवानां पूजनं विप्र भवता न कृतं सदा । पर्वाणि प्राप्य विप्रेभ्यो द्रव्यं नैव समर्पितम्
श्राद्धकालं च संप्राप्य श्रद्धया न कृतं त्वया । भार्या वदति ते साध्वी दिनमध्ये समागते
श्वशुरश्राद्धकालश्च श्वश्र्वाश्चैव महामते । तच्छ्रुत्वा तद्वचस्तेषां गृहं त्यक्त्वा पलायसे