देवशर्म्मोवाच- सर्वं देवि समाख्यातं धर्माख्यं ज्ञानमुत्तमम् । कथं पुत्रमहं विंद्यां वैष्णवं गुणसंयुतम्
वद त्वं मे महाभागे यदि जानासि सुव्रते । धर्ममार्गस्त्वया सर्व्वः पितुः प्राप्तः पुरानघे
ममैतद्विदितं कांते भवती ब्रह्मवादिनी । च्यवनस्य प्रसादेन विष्णोस्तुष्टस्य ते पुरा
सुमनोवाच- वसिष्ठं गच्छ धर्मज्ञ तं प्रार्थय महामुनिम् । तस्मात्प्राप्स्यसि तं पुत्रं धर्मज्ञं धर्मवत्सलम्
एवमुक्ते तया वाक्ये देवशर्मा द्विजोत्तमः । करिष्ये तव कल्याणि मतमेवं न संशयः
एवमुक्त्वा जगामासौ देवशर्मा द्विजोत्तमः । वसिष्ठं सर्ववेत्तारं दीप्यंतं तपतां वरम्
गंगातीरे स्थितं पुण्यमासनस्थं द्विजोत्तमम् । तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्
राजमानं महात्मानं ब्रह्मसिंहं द्विजोत्तमम् । भक्त्या प्रणम्य स मुनिं दंडवत्तं पुनःपुनः
तमुवाच महातेजा ब्रह्मसूनुरकल्मषम् । उपविशासने पुण्ये सुखेन सुमहामते
नारद उवाच- उपविष्टः स योगींद्र पुनः प्राह तपोधनम् । गृहे पुरुष ते वत्स दारभृत्येषु सर्वदा
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु । निरामयोऽसि चांगेषु धर्मं पालयसे सदा
एवमुक्त्वा महाप्राज्ञः पुनः प्राह महीसुरम् । किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम
नारद उवाच- एवं संभाष्य तं विप्रं विरराम शुभं वचः । ततो विप्रो महाभागो वसिष्ठं मुनिपुंगवम्
स होवाच महात्मानं वसिष्ठं तपतां वरम् । भगवञ्छ्रूयतां वाक्यं विच्छेदय द्विजोत्तम
दारिद्र्यं केन भावेन पुत्रसौख्यं कथं नहि । एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे
महामोहेन संमुग्धः प्रियया बोधितो द्विज । तयाहं प्रेषितस्तात तव पार्श्वं समागतः
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् । मुक्तिदाता भव स्वत्वं ममसंसारबंधनात्
वसिष्ठ उवाच- पुत्रा मित्रास्तथा भ्राता अन्ये स्वजनबांधवाः । पंचभेदास्तु संबंधाः पुरुषस्य भवंति ते
तेते सुमनसा प्रोक्ताः पूर्वमेव तवाग्रतः । ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् । पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा
शुद्धिमाञ्ज्ञानसंपन्नस्तपस्वी वाग्विदां वरः । सर्वकर्मसुसंवीतो वेदाध्ययनतत्परः
सर्वशास्त्रप्रवेदी च देवब्राह्मणपूजकः । याज्ञिकः सर्वयज्ञानां दाता त्यागी प्रियंवदः
विष्णुध्यानपरो नित्यं शांतोदांतः सुहृत्सदा । पितृमातृपरो नित्यं सर्वस्वजनवत्सलः
कुलस्य तारको विद्वान्स्वकुलं परिपोषकः । एवंगुणैस्तु संयुक्तः सुपुत्रः सुखदायकः
अन्ये संबंधयुक्ताश्च शोकसंतापकारकाः । उदासीनेन किं कार्यं फलहीनेन तेऽनघ
आयांति यांति ते सर्वे दुःखं दत्वा सुदारुणम् । पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम
पूर्वजन्मकृतं कर्म यत्त्वया परिपालितम् । तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः
भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा । कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः
एकभार्यः सदा द्वेषी बहुपुत्रो ह्यदत्तवान् । धर्मं नैव विजानासि सत्यं च परिनिष्ठितम्
दानं नैव त्वया दत्तं शास्त्रं नैव परिश्रुतम् । कृतं नैव त्वया तीर्थं न च यात्रा महामते