सत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम् । तथा हि वंशमिच्छंति साधवः सत्यपंडिताः
यथा पुत्रस्य चिंता मे न धनस्य तथा प्रिये । येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम्
सुमनोवाच- पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् । सुपुत्रेण महाभाग पितामाता प्रजीवतः
एकः पुत्रो वरः कांत बहुभिर्निर्गुणैस्तु किम् । एकस्तारयते वंशमन्ये संतापकारकाः
पूर्वमेव मया प्रोक्तमन्ये संबंधभागिनः । पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम्
सुगर्भः प्राप्यते पुण्यैर्दुर्मृत्युः पातकैस्तथा । सुखानां निचयं कांत सत्यमेव वदाम्यहम्
ब्रह्मचर्येण सत्येन तपसा नित्यवर्तनैः । दानेन नियमैश्चापि क्षमा शौचेन वल्लभ
अहिंसया च शक्त्या वाऽस्तेयेनापि प्रवर्तते । एतैर्दशभिरंगैश्च धर्ममेवं प्रसूयते
संपूर्णो जायते धर्म अंगैर्गर्भो यथोदरे । धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा
तस्य धर्मः प्रसन्नात्मा पुण्य सौख्यं प्रयच्छति । यंयं चिंतयते प्राज्ञस्तंतं प्राप्नोति दुर्लभम्
देवशर्म्मोवाच- सर्वं देवि समाख्यातं धर्माख्यं ज्ञानमुत्तमम् । कथं पुत्रमहं विंद्यां वैष्णवं गुणसंयुतम्
वद त्वं मे महाभागे यदि जानासि सुव्रते । धर्ममार्गस्त्वया सर्व्वः पितुः प्राप्तः पुरानघे
ममैतद्विदितं कांते भवती ब्रह्मवादिनी । च्यवनस्य प्रसादेन विष्णोस्तुष्टस्य ते पुरा
सुमनोवाच- वसिष्ठं गच्छ धर्मज्ञ तं प्रार्थय महामुनिम् । तस्मात्प्राप्स्यसि तं पुत्रं धर्मज्ञं धर्मवत्सलम्
एवमुक्ते तया वाक्ये देवशर्मा द्विजोत्तमः । करिष्ये तव कल्याणि मतमेवं न संशयः
एवमुक्त्वा जगामासौ देवशर्मा द्विजोत्तमः । वसिष्ठं सर्ववेत्तारं दीप्यंतं तपतां वरम्
गंगातीरे स्थितं पुण्यमासनस्थं द्विजोत्तमम् । तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्
राजमानं महात्मानं ब्रह्मसिंहं द्विजोत्तमम् । भक्त्या प्रणम्य स मुनिं दंडवत्तं पुनःपुनः
तमुवाच महातेजा ब्रह्मसूनुरकल्मषम् । उपविशासने पुण्ये सुखेन सुमहामते
नारद उवाच- उपविष्टः स योगींद्र पुनः प्राह तपोधनम् । गृहे पुरुष ते वत्स दारभृत्येषु सर्वदा
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु । निरामयोऽसि चांगेषु धर्मं पालयसे सदा
एवमुक्त्वा महाप्राज्ञः पुनः प्राह महीसुरम् । किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम
नारद उवाच- एवं संभाष्य तं विप्रं विरराम शुभं वचः । ततो विप्रो महाभागो वसिष्ठं मुनिपुंगवम्
स होवाच महात्मानं वसिष्ठं तपतां वरम् । भगवञ्छ्रूयतां वाक्यं विच्छेदय द्विजोत्तम
दारिद्र्यं केन भावेन पुत्रसौख्यं कथं नहि । एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे
महामोहेन संमुग्धः प्रियया बोधितो द्विज । तयाहं प्रेषितस्तात तव पार्श्वं समागतः
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् । मुक्तिदाता भव स्वत्वं ममसंसारबंधनात्
वसिष्ठ उवाच- पुत्रा मित्रास्तथा भ्राता अन्ये स्वजनबांधवाः । पंचभेदास्तु संबंधाः पुरुषस्य भवंति ते
तेते सुमनसा प्रोक्ताः पूर्वमेव तवाग्रतः । ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् । पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा