द्वयोपदेशपूर्वं तु सर्वकर्मसमाचरेत् । द्वयाधिकारी न भवेत्सर्वकर्मसु नार्हति
तस्माद्वयमधीत्येव पश्चान्मंत्रमनुत्तमम् । श्रीमदष्टाक्षरं सम्यगभ्यसेद्दिवजसत्तमः
मंत्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव संग्रहात् । नैसर्गप्रणवाद्यन्तु मंत्रमित्युच्यतेबुधैः
नान्यत्र सर्वमंत्रेषु प्रणवस्वस्वभावतः । पूर्वं तु सर्वमंत्राणां योजयेत्प्रणवं शुभम्
ॐकारः प्रणवं ब्रह्म सर्वमंत्रेषु नायकः । आदौ सर्वत्र युंजीत मंत्राणां तु शुभानने
स्वभावात्प्रणवन्तस्मिन्मूलमंत्रे प्रतिष्ठितम् । ओमित्येकाक्षरं पूर्वं द्व्यक्षरं नम इत्यथ
ततो नारायणायेति पंचार्णानि यथाक्रमम् । एवमष्टाक्षरो मंत्रो ज्ञेयः सर्वार्थसाधकः
सर्वदुःखहरः श्रीमान्सर्वमंत्रात्मकः शुभः । ऋषिर्नारायणस्तस्य देवता श्रीश एव च
छंदस्तु देवी गायत्री प्रणवो बीजमुच्यते । नित्यानपायिनी देवी शक्तिः श्रीरुच्यते मनोः
प्रथमं पदमोङ्कार द्वितीयं नम उच्यते । तृतीयं नारायणायेति पदत्रयमुदाहृतम्
अकारश्चाप्युकारश्च मकारश्च ततः परम् । वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम्
अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते । मकारस्त्वनयोर्दासः पंचविंशः प्रकीर्तितः
वासुदेवस्वरूपं तदकारेणोच्यतै बुधैः । उकारेण श्रियो देव्या रूपं मुनिभिरुच्यते
मकारेणोच्यते जीवः पंचविंशोदितः पुमान् । भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च
ट वर्गेण तवर्गेण ज्ञानं धादयस्तथा । मनः पकारेणैवोक्तं फकारेण त्वहंकृतिः
बकारेण भकारेण महान्प्रकृतिरुच्यते । आत्मा तु स मकारः स्यात्पंचविंशः प्रकीर्तितः
देहेंद्रियमनः प्राणादिभ्योन्योऽनन्यसाधनः । भगवच्छेषभूतोऽसौ मकाराख्यः स चेतनः
अवधारणवाच्येवमुकारः कैश्चिदुच्यते । श्रीतत्वमपि तत्पक्षे वकारेणैव चोच्यते
भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी । आकारेणोच्यते विष्णुः कल्याणगुणसागरः
श्रीशः सर्वात्मनां शेषो जगद्बीजं परः पुमान् । जगत्कर्त्ता जगद्भर्त्ता ईश्वरो लोकबांधवः
जगतामीश्वरी नित्या विष्णोरनपगामिनी । माता सर्वस्य जगतः पत्नी विष्णोर्मनोरमा
जगदाधारभूता श्रीरुकारेणात्र चोच्यते । मकारेण तयोर्दासः क्षेत्रज्ञः प्रोच्यते बुधैः
ज्ञानाश्रमो ज्ञानगुणश्चेतनः प्रकृतेः परः । न जडो निर्विकारश्च एकरूप स्वरूपभाक्
अणुर्नित्यो व्याप्तिशीलश्चिदानंदात्मकस्तथा । अहमर्थोऽव्ययः क्षेत्री भिन्नरूपं सनातनः
अदाह्योच्छेद्यो ह्यक्लैद्यस्त्वशोष्योक्षर एव च । एवमादिगुणोपेतश्शेषभूतः परस्य वै
मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा । दासभूतो हरेरेव नान्यस्य तु कदाचन
एवं दासत्वमेवास्य मध्यमेवावधार्यते । इत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयानघे
विवृतिः प्रणवस्यार्थ मन्त्रशेषेण वै शुभे । परस्य दासभूतस्य स्वातन्त्र्यं नेह विद्यते
तस्मान्महदहंकारौ मनसा विनिवर्त्तयेत् । स्वोपायबुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते
अहंकृतिर्मकारः स्यान्नकारस्तन्निषेधकः । तस्मात्तु मनसैवास्य अहंकारविमोचनम्