धनपुत्रविहीनस्तु बहुदुःखसमन्वितः । दारिद्रेण सुदुःखेन सर्वदैवप्रपीडितः
पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत् । एकदा तु प्रिया तस्य सुमना नाम सुव्रता
भर्तारं चिंतयोपेतमधोमुखमलक्षयत् । समालोक्य तदा कांतं तमुवाच यशस्विनी
दुःखजालैरसंख्यैस्तु तव चित्तं प्रकर्षितम् । व्यामोहेन प्रमूढोसि त्यज चिंतां महामते
मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज । नास्ति चिंतासमं दुःखं कायशोषणमेव हि
तां संत्यज्य प्रवर्तेत स सुखेन प्रमोदते । चिंतायाः कारणं विप्र कथयस्व मम प्रभो
नारद उवाच-। प्रियावाक्यं स संश्रुत्य देवशर्मा महामतिः । उवाच वचनं प्रीतो दुःखितोऽपि सतीसखः
देवशर्मोवाच-। यत्त्वया चिंतितं भद्रे किंचिद्दुःखस्य कारणम् । तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम्
न जाने केन पापेन धनहीनोऽस्मि सुव्रते । तथा पुत्रविहीनोऽस्मि एतद्दुःखस्य कारणम्
सुमनोवाच-। श्रूयतामभिधास्यामि सर्वसंदेहनाशनम् । स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम्
संतोष एव परमं पुण्यं सौख्यादिकारणम् । असंतोषः परं पापमित्याह भगवान्हरिः
लोभः पापस्य बीजोऽयं मोहो मूलं च तस्य वै । असत्यं तस्य हि स्कंधो महाशाखा सुविस्तरात्
मदकौटिल्य पत्राणि कुबुद्ध्या पुष्पितः सदा । अनृतं तस्य सौगंध्यमज्ञानं फलमेव च
कुड्यं पाषंडचौराश्च क्रूराः कूटाश्च पापिनः । पक्षिणो मोहवृक्षस्य महाशाखासमाश्रिताः
अज्ञानं सुफलं तस्य रसो धर्मं फलस्य हि । भावोदकेन संवृद्धिस्तस्य श्रद्धा क्रतु प्रिया
अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते । तादृशैश्च फलैश्चैवसफलो लोभपादपः
तस्यच्छायां समाश्रित्य यो नरः परिवर्तते । फलानि तस्य सोऽश्नाति स्वपक्वानि दिनेदिने
फलानां च रसेनापि अधर्मेण तु पोषितः । स संपुष्टो भवेन्मर्त्यः पतनाय प्रयच्छति
तस्माच्चिंतां परिश्रित्य स्वामि लोभं न कारयेत् । धनपुत्रकलत्राणां चिंतामेतां न कारयेत्
यो हि विद्वान्नचेत्कांत मूर्खाणां पथमेव हि । मृषा चिंतयते नित्यं दिवारात्रौ विमोहितः
शुभार्थं च प्रविंदामि कथं पुत्रानहं लभे । एवं चिंतयते नित्यं दिवारात्रौ विमोहितः
क्षणमेकं प्रपश्येत्स चिंतामध्ये महत्सुखम् । पुनश्चैतन्यमायाति महादुःखेन पीड्यते
चिंतामोहौ परित्यज्य अनुवर्तस्व तं द्विज । संसारे नास्ति संबंधः केन सार्धं महामते
मित्राश्च बांधवाः पुत्राः पितामाता सुतास्तथा । स्वसंबंधा भवंत्येते कलत्रादि तथैव च
देवशर्मोवाच-। संबंधः कीदृशो भद्रे तन्मे विस्तरतो वद । येन जायंति ते सर्वे धनपुत्रादि बांधवाः
सुमनोवाच-। भर्तः पंचविधाः पुत्रा जायंते तान्वदाम्यहम् । न्यासापहारकं चैकमृणसंबंधिनं परम्
रिपुं लभ्यमुदासीनमिति कांत भवंति ते । लक्षणानि प्रवक्ष्यामि तेषामीश पृथक्पृथक्
पुत्रा मित्राः प्रिया भार्या पिता माता च बांधवाः । स्वेनस्वेन हि जायंते संबंधेन महीतले
न्यासापहारभावेन यस्य येन हृतं भुवि । न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि
येन ह्यपहृतं न्यासं तस्य गेहे न संशयः । न्यासापहारणं दुःखं स दत्त्वा दारुणं गतः