फलं ददाति सुमहत्कस्मिन्नपि च जन्मनि । सूक्ष्मो धर्मोऽतिगहनो मीयते न यथा तथा
नैतस्य फलदानस्य श्रूयते भूपनिश्चयः । यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि
तदागत्य कुतः क्वापि स्वं फलं च प्रयच्छति । कृतस्य नेह नाशोऽस्ति पुण्यस्य दुरितस्य च
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम् । यदुक्तं भवता राजन्नायासाधिक्यतो भवेत्
महत्पुण्यं च तत्रापि कारणं मे निशामय । स्वल्पायासमहायासौ यद्यल्पत्व महत्त्वयोः
महापुण्यास्ततस्ते स्युः संततं कर्षकादयः । मंत्रोच्चारं च सिंहादेरायासं बहुलं त्वतः
पंचगव्यं प्रशस्तं हि व्रतांगत्वेन नो भवेत् । इति कर्तव्यबाहुल्यं महत्त्वं च तदल्पता
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात् । इदमल्पं महच्चैतदिति नैव नियामकम्
फलं यच्चोदितं शास्त्रे तदेव स्यान्महन्नृप । यथाल्पनाशो महता महन्नाशस्तथाल्पतः
किं त्वल्पविस्फुलिंगेन तृणराशिः प्रदह्यते
हत्यायुतं पापसहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च । स्तेयादि पापानि च कृष्णभक्तैरज्ञानजातानि लयं ह्रियंते
विष्णुभक्तिमतावीर यत्किंचित्क्रियतेऽल्पकम् । सुकृतं साधुविदुषा तदक्षयफलं लभेत्
संदेहो नात्र कर्त्तव्यो माधवेमासि माधवम् । समाराध्य नरो भक्त्या तत्तद्वांच्छितमाप्नुयात्
अपत्यं द्रविणं रत्नं दाराहर्म्यं हया गजाः । सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः । पापस्य महतोऽपि स्यात्क्षयो वृद्धिः सुकर्मणः
फलाधिक्यं भवेद्भूप त्वाधिक्याद्भावकर्मणोः । सूक्ष्मा धर्मस्य विज्ञेया गतिस्तु विविधैरपि
प्रियो माधवमासोऽयं माधवस्य महात्मनः । एकोप्यनुष्ठितो लोकैः समग्रेप्सितदायकः
पुण्येन गांगेन जलेन काले देशेऽपि यः स्नानपरोऽपि भूप । आजन्मतो भावहतोऽपि दाता न शुद्धिमेतीति मतं ममैतत्
गंगादितीर्थेषु वसंति जीवा देवालये पक्षिगणाश्च नित्यम् । विनाशमायांति कृतोपवासा भावोज्झिता नैव गतिं लभंते
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या । यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम्
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले । प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत्
श्रद्धत्स्वभूप तस्मात्त्वं माधवस्य फलं प्रति । स्वल्पं चापि शुभं कर्म विकर्मशतनाशनम्
यथा हरेर्नामभयेन भूप नश्यंति सर्वे दुरितस्य वृंदाः । नूनं रवौ मेषगते विभाते स्नानेन तीर्थे च हरिस्तवेन
तेजसा वैनतेयस्य पाप्मानः पन्नगा इव । विद्रवंति च वैशाखस्नानेनोषसि निश्चितम्
गंगायां नर्मदायां वा स्नात्वा मेषगते रवौ । पापप्रशमनस्तोत्रं यः पठेद्भक्तिभावतः
एककालं द्विकालं वा त्रिसंध्यमपि भूपते । स याति परमं स्थानं सर्वपापविवर्जितः
अंबरीष महत्पुण्यप्राप्तये कुरु वीक्षणम् । माधवेमासि वै स्नानं प्रातर्नियमसंस्थितः
यदानर्त्तपुरे प्रोक्तं वसतां वर्षकोटिभिः । तत्प्रातर्माधवे मासि स्नानेनैकेन लभ्यते
इहार्थे यत्पुरावृत्तं तदाकर्णय भूपते । भार्यया सह संवादं देवशर्मद्विजन्मनः
रेवातीरे सुपुण्ये च तीर्थे चामरकंटके । कौशिकस्य सुतो जातो देवशर्मा द्विजोत्तमः