तस्यां यस्तर्पयेद्देवान्पितॄन्मर्त्यो यथाविधि । साक्षात्पश्यति तं गंगा स्नातकं गतपापकम्
न माधव समो मासो न गंगा सदृशी नदी । दुर्ल्लभः खलु योगोऽयं हरिभक्त्यैव लभ्यते
विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता । त्रिभिः स्रोतोभिरश्रांता या पुनाति जगत्त्रयम्
स्वर्गारोहणनिःश्रेणी सततानंदकारिणी । अनेकदुरितोद्गारहारिणी दुर्गतारिणी
श्रीमहेशजटाजूटवासिनी दुःखनाशिनी । भजमानजनस्वांतकान्तकेलि विनाशिनी
सगरान्वयनिर्वाणकारिणी धर्मधारिणी । त्रिमार्गचारिणी देवी लोकालंकृतिकारिणी
दर्शन स्पर्शन स्नान कीर्त्तन ध्यान सेवनैः । पुण्यानपुण्यान्पुरुषान्पावयंती सहस्रशः
गंगा गंगेति गंगेति यैस्त्रिसंध्यमितीरितम् । सुदूरस्थैश्च तत्पापं हंति जन्मत्रयार्जितम्
योजनानां सहस्रेषु गंगां यः स्मरते नरः । अपि दुष्कृतकर्मासौ लभते परमां गतिम्
वैशाखे शुक्ल सप्तम्यां दुर्ल्लभा सा विशेषतः । प्राप्यते जगतीपाल हरि विप्र प्रसादतः
न माधवसमो मासो न माधवसमो विभुः । गतोहि दुरितांभोधौ मज्जमानजनस्य यः
दत्तं जप्तं हुतं स्नातं यद्भक्त्या मासि माधवे । तदक्षयं भवेद्भूप पुण्यं कोटिशताधिकम्
यथा देवेषु विश्वात्मा देवो नारायणो हरिः । यथा जप्येषु गायत्री सरितां जाह्नवी तथा
यथोमा सर्वनारीणां तपतां भास्करो यथा । आरोग्यलाभो लाभानां द्विपदां ब्राह्मणो यथा
परोपकारः पुण्यानां विद्यानां निगमो यथा । मंत्राणां प्रणवो यद्वद्ध्यानानामात्मचिंतनम्
सत्यं स्वधर्मवर्तित्वं तपसां च यथा वरम् । शौचानामर्थशौचं च दानानामभयं यथा
गुणानां च यथा लोभक्षयो मुख्यो गुणः स्मृतः । मासानां प्रवरो मासस्तथासौ माधवो मतः
तत्र यत्क्रियते श्राद्धं यज्ञ दानमुपोषणम् । तपोऽध्ययनपूजादि तदक्षयफलं स्मृतम्
वैशाखांतानि पापानि सूर्यांतानि तमांसि च । परापकारपैशुन्य प्रांतानि सुकृतानि च
कार्तिके मासि यत्किंचित्तुलासंस्थे दिवाकरे । स्नानदानादिकं राजंस्तत्परार्धगुणं भवेत्
तस्मात्सहस्रगुणितं माघे मकरगे रवौ । ततोऽपि शतसंख्यातं वैशाखेमेषगे रवौ
ते धन्यास्ते सुकृतिनो नरा वैशाख मासि ये । प्रातः स्नात्वा विधानेन पूजयंति मधुद्विषम्
प्रातःस्नानं च वैशाखे यज्ञदानमुपोषणम् । हविष्यं ब्रह्मचर्यं च महापातकनाशनम्
पुनः कलियुगे राजन्नेतद्गोप्यं भविष्यति । अश्वमेधादिकं यस्मान्माहात्म्यं माधवस्य यत्
अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते । एष माधवमासस्य हयमेध समो विधिः
अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् । न वेत्स्यंति कलौ पापा जना दुरितबुद्धयः
तस्मिन्भवैर्नरैः पापैर्गंतव्यं नरकार्णवे । अतस्तु विरलस्तस्य प्रचारो येन निर्मितः
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये पंचाशीतितमोऽध्यायः
सप्ताशीतितमोऽध्यायः । सूतउवाच- इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः । प्रणम्य विस्मितः प्राह चिन्तयन्मनसा हरिम्
अंबरीष उवाच- कथमेतद्विमुह्यामः स्वल्पायासेन वै मुने । प्राप्यते स्नानमात्रेण फलं चैवातिदुर्ल्लभम्