अवैष्णवोपदिष्टंचेत्पूर्वमंत्रवरंद्वयम् । पुनश्च विधिना सम्यक्वैष्णवाद्ग्राहयेद्गुरोः
सहस्रशाखाध्यायी वा सर्वयज्ञेषु दीक्षितः । कुले महति जातोऽपि न गुरुः स्यादवैष्णवः
यस्तु मंत्रद्वयं सम्यगध्यापयति वैष्णवः । स आचार्यस्तु विज्ञेयो भवबंधविदारकः
आचार्यं संश्रयित्वाथ वत्सरं सेवयेद्दिवजः । तस्य वृत्तिं परिज्ञात्वा मंत्रमध्यापयेद्गुरुः
कृत्वा तापादिसंस्कारान्पश्चान्मंत्रमुदीरयेत् । तापं पुंड्रं तथा नाम कृत्वा वै विधिना गुरुः
पश्चादध्यापयेन्मंत्रं शिष्यं निर्मलचेतसम् । चक्रेण विधिना तप्तं ताप इत्यभिधीयते
पुंड्रमूर्द्ध्वं तथा प्रोक्तं नाम वैष्णवमुच्यते । ततो मंत्रं विधानेन शिष्यमध्यापयेद्गुरुः
न्यासमष्टाक्षरं मंत्रमन्यं वा वैष्णवं मनुम् । न्यासमेवात्र परमं वैष्णवानां शुभानने
तस्मात्तु न्यासमेवैषामतिरिक्तमिहोच्यते । न्यासविद्यापरो यस्तु ब्राह्मणः श्रेष्ठ उच्यते
न्यासात्परतरं नास्ति मन्त्रं सत्यं ब्रवीमि ते । न्यासं द्वयं प्रपत्तिः स्यात्पर्यायेण निबोध मे
द्वयोपदेशपूर्वं तु सर्वकर्मसमाचरेत् । द्वयाधिकारी न भवेत्सर्वकर्मसु नार्हति
तस्माद्वयमधीत्येव पश्चान्मंत्रमनुत्तमम् । श्रीमदष्टाक्षरं सम्यगभ्यसेद्दिवजसत्तमः
मंत्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव संग्रहात् । नैसर्गप्रणवाद्यन्तु मंत्रमित्युच्यतेबुधैः
नान्यत्र सर्वमंत्रेषु प्रणवस्वस्वभावतः । पूर्वं तु सर्वमंत्राणां योजयेत्प्रणवं शुभम्
ॐकारः प्रणवं ब्रह्म सर्वमंत्रेषु नायकः । आदौ सर्वत्र युंजीत मंत्राणां तु शुभानने
स्वभावात्प्रणवन्तस्मिन्मूलमंत्रे प्रतिष्ठितम् । ओमित्येकाक्षरं पूर्वं द्व्यक्षरं नम इत्यथ
ततो नारायणायेति पंचार्णानि यथाक्रमम् । एवमष्टाक्षरो मंत्रो ज्ञेयः सर्वार्थसाधकः
सर्वदुःखहरः श्रीमान्सर्वमंत्रात्मकः शुभः । ऋषिर्नारायणस्तस्य देवता श्रीश एव च
छंदस्तु देवी गायत्री प्रणवो बीजमुच्यते । नित्यानपायिनी देवी शक्तिः श्रीरुच्यते मनोः
प्रथमं पदमोङ्कार द्वितीयं नम उच्यते । तृतीयं नारायणायेति पदत्रयमुदाहृतम्
अकारश्चाप्युकारश्च मकारश्च ततः परम् । वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम्
अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते । मकारस्त्वनयोर्दासः पंचविंशः प्रकीर्तितः
वासुदेवस्वरूपं तदकारेणोच्यतै बुधैः । उकारेण श्रियो देव्या रूपं मुनिभिरुच्यते
मकारेणोच्यते जीवः पंचविंशोदितः पुमान् । भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च
ट वर्गेण तवर्गेण ज्ञानं धादयस्तथा । मनः पकारेणैवोक्तं फकारेण त्वहंकृतिः
बकारेण भकारेण महान्प्रकृतिरुच्यते । आत्मा तु स मकारः स्यात्पंचविंशः प्रकीर्तितः
देहेंद्रियमनः प्राणादिभ्योन्योऽनन्यसाधनः । भगवच्छेषभूतोऽसौ मकाराख्यः स चेतनः
अवधारणवाच्येवमुकारः कैश्चिदुच्यते । श्रीतत्वमपि तत्पक्षे वकारेणैव चोच्यते
भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी । आकारेणोच्यते विष्णुः कल्याणगुणसागरः
श्रीशः सर्वात्मनां शेषो जगद्बीजं परः पुमान् । जगत्कर्त्ता जगद्भर्त्ता ईश्वरो लोकबांधवः