नानाप्रकारा विज्ञेया विष्णोरमिततेजसः । यथाग्निः सुसमृद्धार्च्चिः करोत्येधांसि भस्मसात्
पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात्
यावज्जनो न शृणुते भुवि विष्णुभक्तिं साक्षात्सुधारसमशेषरसैकसारम् । तावज्जरामरणजन्मशताभिघातदुःखानि तानि लभते बहुदेहजानि
संकीर्तितश्चिंतितकीर्तिरंतः श्रुतानुभावो भगवाननंतः । समंततोऽघविनिहंति मेघं वायुर्यथाभानुरिवांधकारम्
न दान देवार्चन याग तीर्थ स्नान श्रुताचार तपः क्रियाभिः । तथा विशुद्धिं लभतेंऽतरात्मा यथा हृदिस्थे भगवत्यनंते
कथा विशुद्धा नरनाथ तथ्यास्ता एव पथ्या हरिनाथ तथ्याः । संकीर्तिता यत्र पवित्रमूर्तेः संश्रूयते च श्रुतसाधुकीर्तिः
धन्योसि धीरधरणीधर धर्मधुर्य्य ध्यानैकतान हृदयः पुरुषोत्तमस्य । यन्नैष्ठिकीमतिरसौ तव सौभगश्रीः श्रीकृष्णनाथसुकृतः श्रवणे प्रवृत्ता
अनाराध्य हरिं भक्त्या वरदं विष्णुमव्ययम् । कुतः श्रेयो भवेद्भूप पुरुषस्यात्ममानिनः
मायाजनिरमायोऽसौ भक्त्या राजन्नमायया । साध्यते साधुपुरुषः स्वयं जानाति तद्भवान्
न विद्यते ते नृप धर्मतत्त्वमज्ञातमेतद्विमलं पुनर्माम् । त्वं पृच्छसे तीर्थपदं प्रसंगात्कथारसं वैष्णव गौरवेण
नातः परं परमतोषविशेषपोषं पश्यामि पुण्यमुचितं च परस्परेण । संतः प्रसह्य यदनंतगुणाननंतश्रेयोनिधीनधिकभावभुजो भुजंति
ब्राह्मणाः सुरभी सत्य श्रद्धा याग तपांसि च । श्रुति स्मृति दया दीक्षा शांतयस्तनवो हरेः
आदित्यश्चंद्रमा वायुर्भूमिरापोंऽबरं दिशः । ब्रह्माविष्णुश्च रुद्रश्च सर्वभूतमयो विभुः
विश्वरूपः स्वयं चक्रे जगदेतच्चराचरम् । स्वयं ब्राह्मणमाविश्य सदान्नमुपभुंजते
ततस्तु तीर्थास्पदपादरेणून्धराधरात्मालय भूमिदेवान् । परात्मनः पूजय पुण्यलक्ष्मी सर्वस्वभूतानखिलात्मभूतान्
ब्राह्मणं विष्णुबुद्ध्य्या यो विद्वांसं साधु पश्यति । स एव वैष्णवो यश्च स्वस्वकर्मैकनिष्ठितः
किंचिदेतन्मयाप्रोक्तं रहस्यं समयो हि मे । स्नातुं गंतुं च गंगायां न कथावसरोऽधिकः
प्राप्तोऽयं माधवो मासः पुण्यो माधववल्लभः । तस्यापि सप्तमी शुक्ला गंगायामतिदुर्ल्लभा
वैशाख शुक्ल सप्तम्यां जाह्नवी जह्नुना पुरा । क्रोधात्पीता पुनस्त्यक्ता कर्णरंध्रात्तु दक्षिणात्
तस्यां समर्चयेद्देवीं गंगां गगनमेखलाम् । स्नात्वा सम्यग्विधानेन स धन्यः सुकृती नरः
तस्यां यस्तर्पयेद्देवान्पितॄन्मर्त्यो यथाविधि । साक्षात्पश्यति तं गंगा स्नातकं गतपापकम्
न माधव समो मासो न गंगा सदृशी नदी । दुर्ल्लभः खलु योगोऽयं हरिभक्त्यैव लभ्यते
विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता । त्रिभिः स्रोतोभिरश्रांता या पुनाति जगत्त्रयम्
स्वर्गारोहणनिःश्रेणी सततानंदकारिणी । अनेकदुरितोद्गारहारिणी दुर्गतारिणी
श्रीमहेशजटाजूटवासिनी दुःखनाशिनी । भजमानजनस्वांतकान्तकेलि विनाशिनी
सगरान्वयनिर्वाणकारिणी धर्मधारिणी । त्रिमार्गचारिणी देवी लोकालंकृतिकारिणी
दर्शन स्पर्शन स्नान कीर्त्तन ध्यान सेवनैः । पुण्यानपुण्यान्पुरुषान्पावयंती सहस्रशः
गंगा गंगेति गंगेति यैस्त्रिसंध्यमितीरितम् । सुदूरस्थैश्च तत्पापं हंति जन्मत्रयार्जितम्
योजनानां सहस्रेषु गंगां यः स्मरते नरः । अपि दुष्कृतकर्मासौ लभते परमां गतिम्
वैशाखे शुक्ल सप्तम्यां दुर्ल्लभा सा विशेषतः । प्राप्यते जगतीपाल हरि विप्र प्रसादतः