कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिकी । ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च
क्रियंते विष्णुमुद्दिश्य सा भक्तिर्वैदिकोच्यते । वेदमंत्रहविर्यागैः क्रियाया वैदिकी मता
दर्शे च पौर्णमास्यां च कर्त्तव्यं चाग्निहोत्रकम् । प्राशनं दक्षिणादानं पुरोडाशं चरु क्रिया
इष्टिर्धृतिः सोमपानं याज्ञियं कर्म सर्वशः । अग्निभूम्यनिलाकाश द्युति शंकर भास्करम्
तमुद्दिश्यकृतं कर्म तत्सर्वं विष्णुदैवतम् । आध्यात्मिकीति विविधा ब्रह्मभक्तिस्थिता नृप
सांख्याख्यां योगसंजातां शृणु भूप यथोदिताम् । चतुर्विंशति तत्त्वानि प्रधानादीनि संख्यया
अचेतनानि भोग्यानि पुरुषः पंचविंशकः । चेतनः स समुद्दिष्टो कर्ता भोक्ता च कर्मणाम्
आत्मा नित्योव्ययश्चैव अधिष्ठाता प्रयोजकः । पुरुषोऽव्यक्त नित्यः स्यात्कारणं च महेश्वरः
तत्त्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः । संख्यायाः परिसंख्यायाः प्रधानं च गुणात्मकम्
ज्ञात्वा साधर्म्यवैधर्म्यं प्रधानं च विधर्मि च । कारणं ब्रह्मणश्चैव कामित्वमिदमुच्यते
प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते । सर्वत्र कर्तृता ब्रह्म पुरुषस्याप्यकर्तृता
अचेतनप्रधानेन समत्वमिदमुच्यते । तत्त्वांतरं च तत्त्वानां कार्यकारणमेव च
प्रयोजनं प्रयोज्यत्वं ज्ञात्वा तत्त्वप्रसंख्यया । संख्यातमुच्यते प्राज्ञैर्विजयार्थविचिंतकैः
इति मत्वास्य सद्भावं तत्त्वं संख्यां च तत्त्वतः । ब्रह्मतत्त्वाधिकं चापि भूततत्त्वं विदुर्बुधाः
सांख्यैः कृता भक्तिरेषा भक्तिराध्यात्मिकी स्मृता । योगजामपि ते भूप शृणु भक्तिं वदाम्यहम्
प्राणायामपरो नित्यं ध्यानवान्नियतेंद्रियः । भैक्ष्यभक्षव्रती चापि सर्वप्रत्याहृतेन्द्रियः
धारणं हृदये कृत्वा ध्यायमानो महेश्वरम् । हृत्पद्मकर्णिकासीनं पीतवस्त्रं सुलोचनम्
पश्यन्नुद्योतितमुखं ब्रह्मसूत्रकटीतटम् । श्वेतवर्णं चतुर्बाहुं वरदाभयहस्तकम्
योगजा मानसीसिद्धिर्विष्णुभक्तिः परा स्मृता । य एवं भक्तिमान्देवं विष्णुभक्तिः स उच्यते
एवं भक्तिः समुद्दिष्टा विविधा नृपनंदन । सात्विकी राजसी चैव तामसीभेदतस्त्विमाः
नानाप्रकारा विज्ञेया विष्णोरमिततेजसः । यथाग्निः सुसमृद्धार्च्चिः करोत्येधांसि भस्मसात्
पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात्
यावज्जनो न शृणुते भुवि विष्णुभक्तिं साक्षात्सुधारसमशेषरसैकसारम् । तावज्जरामरणजन्मशताभिघातदुःखानि तानि लभते बहुदेहजानि
संकीर्तितश्चिंतितकीर्तिरंतः श्रुतानुभावो भगवाननंतः । समंततोऽघविनिहंति मेघं वायुर्यथाभानुरिवांधकारम्
न दान देवार्चन याग तीर्थ स्नान श्रुताचार तपः क्रियाभिः । तथा विशुद्धिं लभतेंऽतरात्मा यथा हृदिस्थे भगवत्यनंते
कथा विशुद्धा नरनाथ तथ्यास्ता एव पथ्या हरिनाथ तथ्याः । संकीर्तिता यत्र पवित्रमूर्तेः संश्रूयते च श्रुतसाधुकीर्तिः
धन्योसि धीरधरणीधर धर्मधुर्य्य ध्यानैकतान हृदयः पुरुषोत्तमस्य । यन्नैष्ठिकीमतिरसौ तव सौभगश्रीः श्रीकृष्णनाथसुकृतः श्रवणे प्रवृत्ता
अनाराध्य हरिं भक्त्या वरदं विष्णुमव्ययम् । कुतः श्रेयो भवेद्भूप पुरुषस्यात्ममानिनः
मायाजनिरमायोऽसौ भक्त्या राजन्नमायया । साध्यते साधुपुरुषः स्वयं जानाति तद्भवान्
न विद्यते ते नृप धर्मतत्त्वमज्ञातमेतद्विमलं पुनर्माम् । त्वं पृच्छसे तीर्थपदं प्रसंगात्कथारसं वैष्णव गौरवेण