वामे च शोभते वीर हस्ते तस्य महात्मनः । महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम्
शोभमानं सदैवास्ते सायुधं कमलश्रियम् । कंबुग्रीवं सुवृत्तास्यं पद्मपत्रनिभेक्षणम्
राजमानं हृषीकेशं दशनैः कुंदसंनिभैः । गुडाकेशस्य यस्यास्ते अधरो विद्रुमाकृतिः
शोभते पुंडरीकाक्षः किरीटेनापि भास्वता । विशालेनापि रूपेण केशवस्तु सुवक्षसा
कौस्तुभेनांकितेनैव राजमानो जनार्दनः । सूर्यतेजःप्रतीकाश कुंडलाभ्यां प्रभाति च
हरिः केयूरकंकणैर्हारैर्मौक्तिकैर्ऋक्षसन्निभैः
वपुषा भ्राजमानस्तु विजयो जयतां वरः । भ्राजतेसोऽपि गोविंदो हेमवर्णेन वाससा
मुद्रिकाभिस्तु युक्ताभिरंगुलीषु विराजते । सर्वायुधैः सुसंपूर्णैर्द्दिव्यैराभरणैर्हरिः
वैनतेयसमारूढो लोककर्त्ता जगत्पतिः । एवं यो ध्यायते नित्यमनन्यमनसा नरः
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । एतत्ते सर्वमाख्यातं ध्यानभेदं जगत्पतेः
अंबरीष उवाच- साधुसाधु मुनिश्रेष्ठ लोकानुग्रहकारक । विष्णोर्ध्यानं त्वया प्रोक्तं सगुणं निर्गुणं च यत्
अधुना लक्षणं ब्रूहि भक्तेः साधु कृपाकर । यादृशी क्रियते येन यथा यत्र यदा तथा
सूत उवाच- इत्युक्तमाकर्ण्य नृपोत्तमस्य मुनिः प्रहृष्टो निजगाद भूपम् । शृणुष्व राजन्निखिलाघहारिणीं भक्तिं हरेस्ते प्रवदामि सम्यक्
अथ भक्तिं प्रवक्ष्यामि विविधां पापनाशिनीम् । विविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा
लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा । ध्यानधारणया बुद्ध्या वेदानां स्मरणं हि यत्
विष्णुप्रीतिकरी चैषा मानसी भक्तिरुच्यते । मंत्रवेदसमुच्चारैरविश्रांतविचिंतनैः
जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते । व्रतोपवासनियमैः पञ्चेंद्रियजयेन च
कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिनी । भूषणैर्हेमरत्नांकैश्चित्राभिर्वाग्भिरेव च
वासः प्रतिसरैः सूत्रैः पावकव्यजनोच्छ्रितैः । नृत्यवादित्रगीतैश्च सर्वबल्युपहारकैः
भक्ष्यभोज्यान्नपानैश्च या पूजा क्रियते नरैः । नारायणं समुद्दिश्य भक्तिः सा लौकिकी मता
कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिकी । ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च
क्रियंते विष्णुमुद्दिश्य सा भक्तिर्वैदिकोच्यते । वेदमंत्रहविर्यागैः क्रियाया वैदिकी मता
दर्शे च पौर्णमास्यां च कर्त्तव्यं चाग्निहोत्रकम् । प्राशनं दक्षिणादानं पुरोडाशं चरु क्रिया
इष्टिर्धृतिः सोमपानं याज्ञियं कर्म सर्वशः । अग्निभूम्यनिलाकाश द्युति शंकर भास्करम्
तमुद्दिश्यकृतं कर्म तत्सर्वं विष्णुदैवतम् । आध्यात्मिकीति विविधा ब्रह्मभक्तिस्थिता नृप
सांख्याख्यां योगसंजातां शृणु भूप यथोदिताम् । चतुर्विंशति तत्त्वानि प्रधानादीनि संख्यया
अचेतनानि भोग्यानि पुरुषः पंचविंशकः । चेतनः स समुद्दिष्टो कर्ता भोक्ता च कर्मणाम्
आत्मा नित्योव्ययश्चैव अधिष्ठाता प्रयोजकः । पुरुषोऽव्यक्त नित्यः स्यात्कारणं च महेश्वरः
तत्त्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः । संख्यायाः परिसंख्यायाः प्रधानं च गुणात्मकम्
ज्ञात्वा साधर्म्यवैधर्म्यं प्रधानं च विधर्मि च । कारणं ब्रह्मणश्चैव कामित्वमिदमुच्यते