विषयैश्चापि सर्वैश्च इंद्रियाणां प्रमुच्यते । तदा स केवलज्ञानी कैवल्यत्वं प्रजायते
ज्वालाकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत् । वर्त्याधारेण राजेंद्र निर्द्वन्द्वो वायुवर्जितः
कज्जलं वमते पश्चात्तैलस्यापि महामते । कृष्णा संदृश्यते रेखा दीपस्याग्रे महामते
स्वयमाकृष्य तत्तैलं तेजसा निर्मलोभवेत् । काये चांतः स्थितस्तद्वत्कर्मतैलं प्रशोषयेत्
विषयान्कज्जलं कृत्वा प्रत्यक्षान्संप्रदर्शयेत् । ज्वालावन्निर्मलो भूत्वा स्वयमेव प्रकाशयेत्
क्रोधलोभादिभिः संज्ञैर्वायुभिः परिवर्जितः । निःस्पृहो निश्चलो भूत्वा तेजश्च स्वयमुज्ज्वलेत्
त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थं स्वतेजसा । केवलज्ञानरूपोऽयं मया ते परिकीर्तितः
ध्यानं चैव प्रवक्ष्यामि द्विविधं तस्य चक्रिणः । केवलज्ञानरूपेण दृश्यते परचक्षुषा
योगयुक्ता महात्मानः परमार्थपरायणाः । यं न पश्यंति मुग्धास्तु सर्वज्ञं सर्वदर्शकम्
हस्तपादविहीनश्च सर्वत्र परिगच्छति । सर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं पुनः
नासामुखविहीनस्तु घ्राति भक्षति भूपते । अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः
अरूपो रूपसंबद्धः पंचवर्गवशं गतः । सर्वलोकस्य यः प्राणः पूज्यते सचराचरैः
अजिह्वो वदते सर्वं वेदशास्त्रानुगं तथा । अत्वचः स्पर्शमेवापि सर्वेषामेव विंदति
सदानंदो विविक्ताक्ष एकरूपो निराश्रयः । निर्गुणो निर्ममो व्यापी सगुणो निर्मलोऽनघः
अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः । तस्य माता न चैवास्ति स वै सर्वमयो विभुः
एवं सर्वमयं ध्यानं यश्च पश्यत्यनन्यधीः । स याति परमं स्थानममूर्त्तममृतोपमम्
द्वितीयं तु प्रवक्ष्यामि तच्छृणुष्व महामते । मूर्त्ताकारं तु साकारं निराकारं निरामयम्
ब्रह्मांडं सर्वमतुलं वासितं यस्य वासनात् । स तस्माद्वासुदेवस्तु प्रोच्यते नृपनंदन
वर्षमाणस्य मेघस्य यद्भासा तस्य तद्भवेत् । सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम्
दक्षिणे शोभते शंखो हेमरत्नविभूषितः । कौमोदकी गदा तस्य महासुरविनाशिनी
वामे च शोभते वीर हस्ते तस्य महात्मनः । महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम्
शोभमानं सदैवास्ते सायुधं कमलश्रियम् । कंबुग्रीवं सुवृत्तास्यं पद्मपत्रनिभेक्षणम्
राजमानं हृषीकेशं दशनैः कुंदसंनिभैः । गुडाकेशस्य यस्यास्ते अधरो विद्रुमाकृतिः
शोभते पुंडरीकाक्षः किरीटेनापि भास्वता । विशालेनापि रूपेण केशवस्तु सुवक्षसा
कौस्तुभेनांकितेनैव राजमानो जनार्दनः । सूर्यतेजःप्रतीकाश कुंडलाभ्यां प्रभाति च
हरिः केयूरकंकणैर्हारैर्मौक्तिकैर्ऋक्षसन्निभैः
वपुषा भ्राजमानस्तु विजयो जयतां वरः । भ्राजतेसोऽपि गोविंदो हेमवर्णेन वाससा
मुद्रिकाभिस्तु युक्ताभिरंगुलीषु विराजते । सर्वायुधैः सुसंपूर्णैर्द्दिव्यैराभरणैर्हरिः
वैनतेयसमारूढो लोककर्त्ता जगत्पतिः । एवं यो ध्यायते नित्यमनन्यमनसा नरः
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । एतत्ते सर्वमाख्यातं ध्यानभेदं जगत्पतेः