शिशुपालो हतो यत्र विहितो यत्र चक्रतुः । गदया तत्र भीमेन कृतं कुंडं सुविस्तरम्
भीमकुंडं तु विज्ञातं जातं तद्भुविपावनम् । कालिंद्या दक्षिणे भागे गव्यूत्यर्धं महीतले
इंद्रप्रस्थगताया यत्कालिंद्याः स्नानतः फलम् । तत्फलं तत्र कुंडे तु जायते नात्र संशयः
सूत उवाच- यस्मिन्क्षेत्रे स्थितो जंतुस्तं क्षेत्रमनुवत्सरम् । प्रदक्षिणादिभिर्धर्मैः स्वापराधान्क्षमापयतेत्
प्रतिसंवत्सरं चैव परिक्रामति यो नरः । क्षेत्रापराधदोषैश्च न स लिप्येत्तु पातकैः
प्रदक्षिणमकुर्वाणः क्षेत्रसिद्धिं न विंदति । तस्मात्प्रदक्षिणा तीर्थे दातव्या च फलार्थिभिः
हरेर्नाम निसंजल्पन्प्रकरोति प्रदक्षिणाम् । पदेपदे स लभते कपिलादानजं फलम्
चैत्रकृष्णचतुर्दश्यां शक्रप्रस्थप्रदक्षिणाम् । यः करोति नरो धन्यः सर्वपापैः प्रमुच्यते
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये इंद्रप्रस्थगत काशीगोकर्णशिवकांचीतीर्थसप्तक भीमकुंडवर्णनोनाम द्वाविंशत्यधिकद्विशततमोऽध्यायः
शंकर उवाच - न्यासेवाप्यर्चने वापि मंत्रमेकांतिनः श्रयेत् । अवैष्णवोपदिष्टेन मंत्रेण न परा गतिः
अवैष्णवोपदिष्टंचेत्पूर्वमंत्रवरंद्वयम् । पुनश्च विधिना सम्यक्वैष्णवाद्ग्राहयेद्गुरोः
सहस्रशाखाध्यायी वा सर्वयज्ञेषु दीक्षितः । कुले महति जातोऽपि न गुरुः स्यादवैष्णवः
यस्तु मंत्रद्वयं सम्यगध्यापयति वैष्णवः । स आचार्यस्तु विज्ञेयो भवबंधविदारकः
आचार्यं संश्रयित्वाथ वत्सरं सेवयेद्दिवजः । तस्य वृत्तिं परिज्ञात्वा मंत्रमध्यापयेद्गुरुः
कृत्वा तापादिसंस्कारान्पश्चान्मंत्रमुदीरयेत् । तापं पुंड्रं तथा नाम कृत्वा वै विधिना गुरुः
पश्चादध्यापयेन्मंत्रं शिष्यं निर्मलचेतसम् । चक्रेण विधिना तप्तं ताप इत्यभिधीयते
पुंड्रमूर्द्ध्वं तथा प्रोक्तं नाम वैष्णवमुच्यते । ततो मंत्रं विधानेन शिष्यमध्यापयेद्गुरुः
न्यासमष्टाक्षरं मंत्रमन्यं वा वैष्णवं मनुम् । न्यासमेवात्र परमं वैष्णवानां शुभानने
तस्मात्तु न्यासमेवैषामतिरिक्तमिहोच्यते । न्यासविद्यापरो यस्तु ब्राह्मणः श्रेष्ठ उच्यते
न्यासात्परतरं नास्ति मन्त्रं सत्यं ब्रवीमि ते । न्यासं द्वयं प्रपत्तिः स्यात्पर्यायेण निबोध मे
द्वयोपदेशपूर्वं तु सर्वकर्मसमाचरेत् । द्वयाधिकारी न भवेत्सर्वकर्मसु नार्हति
तस्माद्वयमधीत्येव पश्चान्मंत्रमनुत्तमम् । श्रीमदष्टाक्षरं सम्यगभ्यसेद्दिवजसत्तमः
मंत्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव संग्रहात् । नैसर्गप्रणवाद्यन्तु मंत्रमित्युच्यतेबुधैः
नान्यत्र सर्वमंत्रेषु प्रणवस्वस्वभावतः । पूर्वं तु सर्वमंत्राणां योजयेत्प्रणवं शुभम्
ॐकारः प्रणवं ब्रह्म सर्वमंत्रेषु नायकः । आदौ सर्वत्र युंजीत मंत्राणां तु शुभानने
स्वभावात्प्रणवन्तस्मिन्मूलमंत्रे प्रतिष्ठितम् । ओमित्येकाक्षरं पूर्वं द्व्यक्षरं नम इत्यथ
ततो नारायणायेति पंचार्णानि यथाक्रमम् । एवमष्टाक्षरो मंत्रो ज्ञेयः सर्वार्थसाधकः
सर्वदुःखहरः श्रीमान्सर्वमंत्रात्मकः शुभः । ऋषिर्नारायणस्तस्य देवता श्रीश एव च
छंदस्तु देवी गायत्री प्रणवो बीजमुच्यते । नित्यानपायिनी देवी शक्तिः श्रीरुच्यते मनोः
प्रथमं पदमोङ्कार द्वितीयं नम उच्यते । तृतीयं नारायणायेति पदत्रयमुदाहृतम्