स्त्रीशूद्रादय एव स्युर्नाम्नाऽराधनतत्पराः । न पूजनैर्न यजनैर्न व्रतैरपि माधवः
तुष्यते केवलं भक्तिप्रियोऽसौ समुदाहृतः । स्त्रीणां पतिव्रतानां तु पतिरेव हि दैवतम्
स तु पूज्यो विष्णुभक्त्या मनोवाक्कायकर्मभिः । कर्तव्यं श्रद्धया विष्णोश्चिंतयित्वा पतिं हृदि
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु । पतिप्रियरतानां च श्रुतिरेषा सनातनी
स्वकुलोचितधर्मेण यद्यस्य विहितं व्रतम् । तत्तदेवाचरेद्यस्तु तेन तुष्यति केशवः
हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम् । यजंति सूरयो नित्यं जपेन रविमंडले
अहिंसा प्रथमं पुष्पं द्वितीयं करणग्रहः । तृतीयकं भूतदया चतुर्थं क्षांतिरेव च
शमस्तु पंचमं पुष्पं दमः षष्ठं च सप्तमम् । ध्यानं सत्यं चाष्टमं च ह्येतैस्तुष्यति केशवः
एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः । पुष्पांतराणि संत्येव बाह्यानि मनुजोत्तम
भक्त्या कृतानि यैर्विष्णुः पूजितः परितुष्यति । वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि
प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकम् । फलपुष्पादिकं चैव वानस्पत्यं तु पंचमम्
पार्थिवं कुशमूलाद्यं वायव्यं गंधचंदनम् । श्रद्धाख्यं विष्णुपुष्पं च वाद्यं विष्णुपदं स्मृतम्
एभिस्तुपूजितः पुष्पैरपि विष्णुः प्रसीदति । सूर्योऽग्निर्ब्राह्मणोगावो वैष्णवः खं मरुज्जलम्
भूरात्मा सर्वभूतानि पूजास्थानानि वा हरेः । सूर्य्ये तु मंत्रजाप्येन हविषाग्नौ यजेत्ततः
आतिथ्येन तु विप्राग्र्ये गोषु ग्रासरसादिना । वैष्णवे बंधुसत्कृत्या हृदये ध्याननिष्ठया
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः । स्थंडिले मंत्रहृदयैर्भोगैरात्मानमात्मनि
क्षेत्रज्ञं सर्वभूतेषु समत्वेनार्चयेद्विभुम् । धिष्ण्येष्वेतेषु तद्रूपं शंखचक्रगदांबुजैः
युक्तं चतुर्भुजं शांतं ध्यायन्नर्च्चेत्समाहितः । ब्राह्मणैः पूजितैरेव पूजितोऽयं न संशयः
निर्भर्त्सितैश्च तैर्भूप भवेन्निर्भर्त्सितो विभुः । निगमो धर्मशास्त्रं च यदाधारे प्रवर्तते
विप्रास्ते वैष्णवीमूर्तिः पावनी परमा मता
सर्वं शुभं जगति धर्मत एव लभ्यं धर्मो गतिर्निगमतो नृपधर्मशास्त्रात् । नूनं तयोरपि गतिर्भुवि भूमिदेवास्तैरर्चितैरिह जगत्पतिरर्चितः स्यात्
न यज्ञयोगैर्न तपोभिरन्यैर्न योगयुक्त्या न समर्चनेन । तथा विभुस्तुष्यति देवदेवो यथा मही दैवततोषणेन
ब्रह्मण्यो ब्रह्मविद्ब्रह्मा ब्रह्मवेदप्रवर्तकः । ब्राह्मणैरेव तुष्येत तोषितं ब्रह्मदैवतम्
नरकेऽपि चिरं मग्नाः पूर्वजा ये कुलद्वये । तदैव यांति ते स्वर्गं यदार्च्चति सुतो हरिम्
किं तेषां जीवितेनेह पशुवच्चेष्टितेन किम् । येषां न प्रवणं चित्तं वासुदेवे जगन्मये
ध्यानं तस्य प्रवक्ष्यामि यन्न दृष्टं तु केनचित् । श्रूयतां भूपकैवल्यं केवलं मलवर्जितम्
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः । प्रज्वलन्नाशयेत्सर्वमंधकारं महामते
तद्वद्दोषविहीनात्मा भवत्येव निरामयः । निराशो निश्चलो वीरोनमित्रं न रिपुस्तथा
शोकहर्षौ विषादश्च न लोभो मत्सरो भ्रमः । संभ्रमालापमोहैश्च सुखदुःखैर्विमुच्यते