जानता परमं धर्ममेकं माधवसेवनम् । यस्मिन्नाराधिते विष्णौ विश्वमाराधितं भवेत्
तुष्टे चराचरं तुष्टं सर्वदेवमये हरौ । यस्य स्मरणमात्रेण महापातकसंहतिः
तत्क्षणान्नाशमायाति स सेव्यो हरिरेव हि । कोऽनु राजन्निंद्रियवान्मुकुंदचरणांबुजम्
न भजेत्सर्वतो मृत्युरुपास्यमृषिदैवतैः । श्रुतोऽनु पठितो ध्यात आदृतश्चानुमोदितः
सद्यः पुनाति सद्धर्मो वीरो विश्वद्रुहोऽपि हि । योयं कारणकार्यादि कारणस्यापि कारणम्
अनन्यकारणं योगी जगज्जीवो जगन्मयः । अणुर्बृहत्कृशः स्थूलो निर्गुणो गुणभृन्महान्
अजो जन्मलयातीतो ध्यातव्यः स हरिः सदा । सम्यगेतद्व्यवसितं भवता पुरुषर्षभ
यत्पृच्छसे भागवतान्धर्मांस्त्वं विश्वभावनान् । प्रसंगेन सतामात्ममनः श्रुति रसायनाः
भवंति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाः । भावसाध्योह्ययं देवः स्वयं जानाति तद्भवान्
तथापि वक्ष्ये जगतो हिताय तव गौरवात् । यदाहुः परमं ब्रह्म प्रधानपुरुषात्परम्
यन्मायया ततं सर्वं सर्वं यच्छति सोऽच्युतः । पुत्रान्कलत्रं दीर्घायू राज्यं स्वर्गापवर्गकम्
स दद्यादीप्सितं सर्वं भक्त्या संपूजितोऽजितः । कर्मणा मनसा वाचा तत्परा ये हि मानवाः
तेषां व्रतानि वक्ष्यामि प्रीतये भूपसत्तम । अहिंसासत्यमस्तेयं ब्रह्मचर्यमकल्पता
एतानि मानसान्याहुर्व्रतानि हरितुष्टये । एकभक्तं तथा नक्तमुपवासमयाचितम्
इत्येवं कायिकं पुंसां व्रतमुक्तं नरेश्वर । वेदस्याध्ययनं विष्णोः कीर्तनं सत्यभाषणम्
अपैशुन्यमिदं राजन्वाचिकं व्रतमुत्तमम् । चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत्
नाशौचं कीर्तने तस्य स पवित्रकरो यतः । वर्णाश्रमाचारवता पुरुषेण परः पुमान्
विष्णुराराध्यते पंथा नान्यः संतोषकारणम् । पतिप्रियहिताभिश्च मनोवाक्कायसंयमैः
व्रतैराराध्यते स्त्रीभिर्वासुदेवो दयानिधिः । आगमोक्तेन मार्गेण स्त्रीशूद्रैरपिपूजनम्
कर्तव्यं कृष्णचंद्रस्य द्विजातिवररूपिणः । त्रयोवर्णास्तु वेदोक्तमार्गाराधनतत्पराः
स्त्रीशूद्रादय एव स्युर्नाम्नाऽराधनतत्पराः । न पूजनैर्न यजनैर्न व्रतैरपि माधवः
तुष्यते केवलं भक्तिप्रियोऽसौ समुदाहृतः । स्त्रीणां पतिव्रतानां तु पतिरेव हि दैवतम्
स तु पूज्यो विष्णुभक्त्या मनोवाक्कायकर्मभिः । कर्तव्यं श्रद्धया विष्णोश्चिंतयित्वा पतिं हृदि
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु । पतिप्रियरतानां च श्रुतिरेषा सनातनी
स्वकुलोचितधर्मेण यद्यस्य विहितं व्रतम् । तत्तदेवाचरेद्यस्तु तेन तुष्यति केशवः
हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम् । यजंति सूरयो नित्यं जपेन रविमंडले
अहिंसा प्रथमं पुष्पं द्वितीयं करणग्रहः । तृतीयकं भूतदया चतुर्थं क्षांतिरेव च
शमस्तु पंचमं पुष्पं दमः षष्ठं च सप्तमम् । ध्यानं सत्यं चाष्टमं च ह्येतैस्तुष्यति केशवः
एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः । पुष्पांतराणि संत्येव बाह्यानि मनुजोत्तम