हरिविविधरसाद्यैर्युक्तमध्यायमेतद्व्रजवरतनयाभिश्चारुहासेक्षणाभिः । पठति य इह भक्त्या पाठयेद्वा मनुष्यो व्रजति भगवतः श्रीवासुदेवस्य धाम
ऋषय ऊचुः - सूतसूत महाभाग रोमहर्षणनंदन । कथा रम्या त्वया प्रोक्ता लोकस्यानंददायिनी
श्रीकृष्णस्य महाभाग चरितं महदद्भुतम् । श्रुतं सर्वं त्वया प्रोक्तं निर्वृतिस्तेन चाभवत्
अहो श्रीकृष्णमाहात्म्यं भक्तानां गतिदायकम् । यतस्तेन महाभाग निर्वृतिं को न चाप्नुयात्
अतः पुनरपि श्रीमत्कृष्णस्य चरितं महत् । श्रोतुमिच्छामहे चान्यद्व्रतदानार्हणादिकम्
स्नानं वापि महाभाग यथा येन कृतं पुरा । तत्सर्वं विस्तराद्ब्रूहि यथा नो निर्वृतिर्भवेत्
सूत उवाच- साधु पृष्टं द्विजश्रेष्ठा लोकानां तारणं परम् । यूयं कृतार्थाः कृष्णस्य भक्त्या संपूर्णमानसाः
श्रीकृष्णचरितं पुण्यं साधूनां हर्षदं परम् । प्रवक्ष्यामि द्विजश्रेष्ठा महदाख्यानमुत्तमम्
एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः । मथुरायामंबरीषं कृष्णाराधनतत्परम्
महाभागं व्रतपरं ददर्श मुनिसत्तमः । स आगतं मुनिवरं सत्कृत्य मुनिसत्तमः
भवंत इव पप्रच्छ श्रद्धया हृष्टमानसः । अंबरीष उवाच-। यन्मुने परमं ब्रह्म वेदवादिभिरुच्यते
स देवः पुंडरीकाक्षः स्वयं नारायणः परः । योऽमूर्तो मूर्तिमानीशो व्यक्तोऽव्यक्तः सनातनः
सर्वभूतमयोऽचिंत्यो ध्यातव्यः स कथं हरिः । यस्मिन्सर्वमिदं विश्वमोतं प्रोतं प्रतिष्ठितम्
अव्यक्तमेकं परमं परमात्मेति विश्रुतम् । यतो जन्मादि जगतो यो निर्माय स्वयं भुवम्
ददौ तस्मै च निगमानात्मन्येव व्यवस्थितान् । कथमाराध्यते सोऽयं समग्रपुरुषार्थदः
योगिनामपि दुर्गम्यस्तदेतत्कृपया वद । अनाराधित गोविंदा न विदंति हितोदयम्
न तपो यज्ञदानानां लभते फलमुत्तमम् । अनास्वादितगोविंदपदांबुजरसश्च यः
मनोरथपथातीतं स्फीतं नाकलयेत्फलम् । हरेराराधनं हित्वा दुरितौघ निवारणम्
नान्यत्पश्यामि जंतूनां प्रायश्चित्तं परं मुने । यद्भ्रूनर्तनवर्तिन्यः श्रूयंते सिद्धयोऽखिलाः
कथमाराध्यतेसोऽयं केशवः क्लेशनाशनः । उपास्यते स भगवान्कथं नारायणो नरैः
प्रीतश्च सर्वमेतन्मे हिताय जगतो वद । भक्तिप्रियोऽसौ भगवान्कया भक्त्या प्रसीदति
कथं तस्मिन्भवेद्भक्तिः सर्वैराराध्यते कथम् । वैष्णवोसि हरेस्तस्य प्रियोऽसि परमार्थवित्
तेन त्वामेव पृच्छामि ब्रह्मन्ब्रह्मविदुत्तम । श्रोतारमथ वक्तारं प्रष्टारं पुरुषं हरेः
प्रश्नः पुनाति कृष्णस्य तदंघ्रिसलिलं यथा । दुर्ल्लभो मानुषो देहो देहिनां क्षणभंगुरः
तत्रापि दुर्ल्लभं मन्ये वैकुंठप्रियदर्शनम् । संसारेस्मिन्क्षणार्धोऽपि सत्संगः शेवधिर्नृणाम्
यस्मादवाप्यते सर्वं पुरुषार्थचतुष्टयम् । भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम्
बालानां तु यथा पित्रोरुत्तमश्लोकवर्त्मनाम् । भूतानां देवचरितं दुःखाय च सुखाय च
सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् । भजंति ये यथा देवान्देवा अपि तथैव तान्
छायेव कर्मसचिवाः साधवो दीनवत्सलाः । तस्मात्त्वं भगवन्मह्यं वैष्णवं धर्ममादिश
यस्योपदेशदानेन लभते वेदजं फलम् । नारद उवाच- साधु पृष्टं महीपाल विष्णुभक्तिमता त्वया