दीपाद्दीपमिवालोक्य सुभगां भुवि कन्यकाम् । चित्रध्वजां त्रपाभंगि स्मितशोभां मनोहराम्
प्रेम्णा गृहीत्वा करयोः सा तामपहरन्मुदा । गोविंदवामपार्श्वस्थां प्रेयसीं परिरभ्य च
उवाच तव दासीयं नाम चास्याश्चकार य । सेवां चास्यै वद प्रीत्या यथाभिरुचितां प्रियाम्
अथ चित्रकलेत्येतन्नाम चात्ममतेन सा । चकार चाह सेवार्थं धृत्वा चापि विपंचिकाम्
सदा त्वं निकटे तिष्ठ गायस्व विविधैः स्वरैः । गुणात्मन्प्राणनाथस्य तवायं विहितो विधिः
अथ चित्रकला त्वाज्ञां गृहीत्वानम्य माधवम् । तत्प्रेयस्याश्च चरणं गृहीत्वा पादयो रजः
जगौ सुमधुरं गीतं तयोरानंदकारणम् । अथ प्रीत्योपगूढा सा कृष्णेनानंदमूर्तिना
यावत्सुखांबुधौ पूर्णा तावदेवाप्यबुध्यत । चित्रध्वजो महाप्रेमविह्वलः स्मरतत्परः
तमेव परमानंदं मुक्तकंठो रुरोद ह । तदारभ्य रुदन्नेव मुक्त्वा हरिविचारकम्
आभाषितोऽपि पित्राद्यैर्नैवावोचद्वचः क्वचित् । मासमात्रं गृहे स्थित्वा निशीथे कृष्णसंश्रयः
निर्गत्यारण्यमचरत्तपो वै मुनिदुष्करम् । कल्पांते देहमुत्सृज्य तपसैव महामुनिः
वीरगुप्ताभिधानस्य गोपस्य दुहिता शुभा । जाता चित्रकलेत्येव यस्याः स्कंधे मनोहरा
विपंची दृश्यते नित्यं सप्तस्वरविभूषिता । उपतिष्ठति वै वामे रत्नभृंगारमद्भुतम्
दधाना दक्षिणे हस्ते सा वै रत्नपतद्ग्रहम् । अयमासीत्पुरा सर्वं तापसैरभिवंदितः
मुनिः पुण्यश्रवा नाम काश्यपः सर्वधर्मवित् । पिता तस्याभवच्छैवः शतरुद्रीयमन्वहम्
प्रस्तुवन्देवदेवेशं विश्वेशं भक्तवत्सलम् । प्रसन्नो भगवांस्तस्य पार्वत्या सह शंकरः
चतुर्दश्यामर्द्धरात्रेः प्रत्यक्षः प्रददौ वरम् । त्वत्पुत्रो भविता कृष्णे भक्तिमान्बाल एव हि
उपनीयाष्टमे वर्षे तस्मै सिद्धमनुस्त्वयम् । उपदिशैकविंशत्या यो मया ते निगद्यते
गोपालविद्यानामायं मंत्रो वाक्सिद्धिदायकः । एतत्साधकजिह्वाग्रे लीलाचरितमद्भुतम्
अनंतमूर्तिरायाति स्वयमेव वरप्रदः । काममाया रमाकंठ सेंद्रा दामोदरोज्ज्वलाः
मध्ये दशाक्षरीं प्रोच्य पुनस्ता एव निर्दिशेत् । दशाक्षरोक्तऋष्यादिध्यानं चास्य ब्रवीम्यहम्
पूर्णामृतनिधेर्मध्ये द्वीपं ज्योतिर्मयं स्मरेत् । कालिंद्या वेष्टितं तत्र ध्यायेद्वृंदावने वने
सर्वर्तुकुसुमस्रावि द्रुमवल्लीभिरावृतम् । नटन्मत्तशिखिस्वानं गायत्कोकिलषट्पदम्
तस्य मध्ये वसत्येकः पारिजाततरुर्महान् । शाखोपशाखाविस्तारैः शतयोजनमुच्छ्रितः
तले तस्याथ विमले परितो धेनुमंडलम् । तदंतर्मंडलं गोपबालानां वेणुशृंगिणाम्
तदंतरे तु रुचिरं मंडलं व्रज सुभ्रुवाम् । नानोपायनपाणीनां मदविह्वलचेतसाम्
कृतांजलिपुटानां च मंडलं शुक्लवाससाम् । शुक्लाभरणभूषाणां प्रेमविह्वलितात्मनाम्
चिंतयेच्छ्रुतिकन्यानां गृह्णतीनां वचः प्रियम् । रत्नवेद्यां ततो ध्यायेद्दुकूलावरणं हरिम्
ऊरौ शयानं राधायाः कदलीकांडकोपरि । तद्वक्त्रं चंद्र सुस्मेरं वीक्षमाणं मनोहरम्
किंचित्कुंचितवामांघ्रिं वेणुयुक्तेन पाणिना । वामेनालिंग्य दयितां दक्षेण चिबुकं स्पृशन्