वृत्तकस्तूरिकावेणी मध्ये सिंदूरबिंदुवत् । दधाना चित्रकं भाले सार्द्धं चंदनचित्रकैः
या सैव दृश्यते शांता जपंती परमं पदम् । आसीच्चंद्रप्रभो नाम राजर्षिः प्रियदर्शनः
तस्य कृष्णप्रसादेन पुत्रोऽभून्मधुराकृतिः । चित्रध्वज इति ख्यातः कौमारावधि वैष्णवः
स राजा सुसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम् । आदेशयद्द्विजान्मंत्रं परमष्टादशाक्षरम्
अभिषिच्यमानः स शिशुर्मंत्रामृतमयैर्जलैः । तत्क्षणे भूपतिं प्रेम्णा नत्वोदश्रुप्रकल्पितः
तस्मिन्दिने स वै बालः शुचिवस्त्रधरः शुचिः । हारनूपुरसूत्राद्यैर्ग्रैवेयांगदकंकणैः
विभूषितो हरेर्भक्तिमुपस्पृश्यामलाशयः । विष्णोरायतनं गत्वा स्थित्वैकाकी व्यचिंतयत्
कथं भजामि तं भक्तं मोहनं गोपयोषिताम् । विक्रीडंतं सदा ताभिः कालिंदीपुलिने वने
इत्थमत्याकुलमतिश्चिंतयन्नेव बालकः । अथापपरमां विद्यां स्वप्नं च समवाप्यत
आसीत्कृष्णप्रतिकृतिः पुरतस्तस्य शोभना । शिलामयी स्वर्णपीठे सर्वलक्षणलक्षिता
साभूदिंदीवरश्यामा स्निग्धलावण्यशालिनी । त्रिभंगललिताकार शिखंडी पिच्छभूषणा
कूजयंती मुदा वेणुं कांचनीमधरेऽर्पिताम् । दक्षसव्यगताभ्यां च सुंदरीभ्यां निषेविताम्
वर्द्धयंतीं तयोः कामं चुंबनाश्लेषणादिभिः । दृष्ट्वा चित्रध्वजः कृष्णं तादृग्वेषविलासिनम्
अवनम्य शिरस्तस्मै पुरो लज्जितमानसः । अथोवाच हरिर्दक्षपार्श्वगां प्रेयसीं हसन्
सलज्जं परमं चैनं स्वशरीरासनागतम् । निर्मायात्मसमं दिव्यं युवतीरूपमद्भुतम्
चिंतयस्व शरीरेण ह्यभेदं मृगलोचने । अथो त्वदंगतेजोभिः स्पृष्टस्त्वद्रूपमाप्स्यति
ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजांतिकम् । निजांगकैस्तदंगानामभेदं ध्यायती स्थिता
अथास्यास्त्वंगतेजांसि तदंगं पर्यपूरयन् । स्तनयोर्ज्योतिषा जातौ पीनौ चारुपयोधरौ
नितंबज्योतिषा जातं श्रोणिबिंबं मनोहरम् । कुंतलज्योतिषा केशपाशोऽभूत्करयोः करौ
सर्वमेवं सुसंपन्नं भूषावासः स्रगादिकम् । कलासु कुशला जाता सौरभेनांतरात्मनि
दीपाद्दीपमिवालोक्य सुभगां भुवि कन्यकाम् । चित्रध्वजां त्रपाभंगि स्मितशोभां मनोहराम्
प्रेम्णा गृहीत्वा करयोः सा तामपहरन्मुदा । गोविंदवामपार्श्वस्थां प्रेयसीं परिरभ्य च
उवाच तव दासीयं नाम चास्याश्चकार य । सेवां चास्यै वद प्रीत्या यथाभिरुचितां प्रियाम्
अथ चित्रकलेत्येतन्नाम चात्ममतेन सा । चकार चाह सेवार्थं धृत्वा चापि विपंचिकाम्
सदा त्वं निकटे तिष्ठ गायस्व विविधैः स्वरैः । गुणात्मन्प्राणनाथस्य तवायं विहितो विधिः
अथ चित्रकला त्वाज्ञां गृहीत्वानम्य माधवम् । तत्प्रेयस्याश्च चरणं गृहीत्वा पादयो रजः
जगौ सुमधुरं गीतं तयोरानंदकारणम् । अथ प्रीत्योपगूढा सा कृष्णेनानंदमूर्तिना
यावत्सुखांबुधौ पूर्णा तावदेवाप्यबुध्यत । चित्रध्वजो महाप्रेमविह्वलः स्मरतत्परः
तमेव परमानंदं मुक्तकंठो रुरोद ह । तदारभ्य रुदन्नेव मुक्त्वा हरिविचारकम्
आभाषितोऽपि पित्राद्यैर्नैवावोचद्वचः क्वचित् । मासमात्रं गृहे स्थित्वा निशीथे कृष्णसंश्रयः