विन्यस्ता कंबुकंठेऽस्या भाति गुंजावलि शुभा । परोक्षेपि च कृष्णस्य कांतिभिश्च स्मरार्दिता
सखीभिर्वादयंतीभिर्गायंती सुस्वरं परम् । नर्त्तयेत्प्रियवेषेण वेषयित्वा वधूमिमाम्
वारंवारं च गोविंदं भावेनालिंग्य चुंबति । प्रियासौ सर्वगोपीनां कृष्णस्याप्यतिवल्लभा
श्वेतकेतोः सुतः कश्चिद्वेदवेदांगपारगः । सर्वमेव परित्यज्य प्रचंडं तप आस्थितः
मुरारेः सेवितपदां सुधामधुरनादिनीम् । गोविंदस्य प्रियां शक्तिं ब्रह्मरुद्रादिदुर्गमाम्
भजंतीमेकभावेन श्रियमेव मनोहराम् । ध्यायञ्जजाप सततं मंत्रमेकादशाक्षरम्
हसितं सकलं कृत्वा बतमायेषु योजयन् । कांत्यादिभिर्हसंतीभिर्वासयंत्यभितो जगत्
वसंते वसतेत्येवं मंत्रार्थं चिंतयन्सदा । सोऽपि कल्पद्वयेनैव सिद्धोऽत्र जनिमाप्तवान्
सेयं बालायते पुत्री कृशांगी कुड्मलस्तनी । मुक्तावलिलसत्कंठी शुद्धकौशेयवासिनी
मुक्ताच्छुरितमंजीरकंकणांगदमुद्रिका । बिभ्रती कुंडले दिव्ये अमृतस्राविणी शुभे
वृत्तकस्तूरिकावेणी मध्ये सिंदूरबिंदुवत् । दधाना चित्रकं भाले सार्द्धं चंदनचित्रकैः
या सैव दृश्यते शांता जपंती परमं पदम् । आसीच्चंद्रप्रभो नाम राजर्षिः प्रियदर्शनः
तस्य कृष्णप्रसादेन पुत्रोऽभून्मधुराकृतिः । चित्रध्वज इति ख्यातः कौमारावधि वैष्णवः
स राजा सुसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम् । आदेशयद्द्विजान्मंत्रं परमष्टादशाक्षरम्
अभिषिच्यमानः स शिशुर्मंत्रामृतमयैर्जलैः । तत्क्षणे भूपतिं प्रेम्णा नत्वोदश्रुप्रकल्पितः
तस्मिन्दिने स वै बालः शुचिवस्त्रधरः शुचिः । हारनूपुरसूत्राद्यैर्ग्रैवेयांगदकंकणैः
विभूषितो हरेर्भक्तिमुपस्पृश्यामलाशयः । विष्णोरायतनं गत्वा स्थित्वैकाकी व्यचिंतयत्
कथं भजामि तं भक्तं मोहनं गोपयोषिताम् । विक्रीडंतं सदा ताभिः कालिंदीपुलिने वने
इत्थमत्याकुलमतिश्चिंतयन्नेव बालकः । अथापपरमां विद्यां स्वप्नं च समवाप्यत
आसीत्कृष्णप्रतिकृतिः पुरतस्तस्य शोभना । शिलामयी स्वर्णपीठे सर्वलक्षणलक्षिता
साभूदिंदीवरश्यामा स्निग्धलावण्यशालिनी । त्रिभंगललिताकार शिखंडी पिच्छभूषणा
कूजयंती मुदा वेणुं कांचनीमधरेऽर्पिताम् । दक्षसव्यगताभ्यां च सुंदरीभ्यां निषेविताम्
वर्द्धयंतीं तयोः कामं चुंबनाश्लेषणादिभिः । दृष्ट्वा चित्रध्वजः कृष्णं तादृग्वेषविलासिनम्
अवनम्य शिरस्तस्मै पुरो लज्जितमानसः । अथोवाच हरिर्दक्षपार्श्वगां प्रेयसीं हसन्
सलज्जं परमं चैनं स्वशरीरासनागतम् । निर्मायात्मसमं दिव्यं युवतीरूपमद्भुतम्
चिंतयस्व शरीरेण ह्यभेदं मृगलोचने । अथो त्वदंगतेजोभिः स्पृष्टस्त्वद्रूपमाप्स्यति
ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजांतिकम् । निजांगकैस्तदंगानामभेदं ध्यायती स्थिता
अथास्यास्त्वंगतेजांसि तदंगं पर्यपूरयन् । स्तनयोर्ज्योतिषा जातौ पीनौ चारुपयोधरौ
नितंबज्योतिषा जातं श्रोणिबिंबं मनोहरम् । कुंतलज्योतिषा केशपाशोऽभूत्करयोः करौ
सर्वमेवं सुसंपन्नं भूषावासः स्रगादिकम् । कलासु कुशला जाता सौरभेनांतरात्मनि