यासां कर्णेषु दृश्यंते ताटंका रश्मिदीपिताः । रत्नमाल्यानि कंठेषु रत्नपुष्पाणि वेणिषु
मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः । कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ
ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनुम् । ह्रीं हंस इति कृत्वैव जपंतौ यतमानसौ
ध्यायंतौ गोकुले कृष्णं बालकं दशवार्षिकम् । कंदर्पसमरूपेण तारुण्यललितेन च
पश्यंतीर्व्रजबिंबोष्ठीर्मोहयंतमनारतम् । तौ कल्पांते तनूं त्यक्त्वा लब्धवंतौ जनिं व्रजे
सुवीरनाम गोपस्य सुते परमशोभने । ययोर्हस्ते प्रदृश्येते सारिके शुभराविणी
जटिलो जंघपूतश्च घृताशी कर्बुरेव च । चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः
केवलेनैकभावेन प्रपन्ना बल्लवीपतिम् । तेपुस्ते सलिले मग्ना जपंतो मनुमेव च
रमात्रयेण पुटितं स्मराद्यं तदशाक्षरम् । दध्युश्च गाढभावेन बल्लवीभिर्वने वने
भ्रमंतं नृत्यगीताद्यैर्मानयंतं मनोहरम् । चंदनालिप्तसर्वांगं जपापुष्पावतंसकम्
कल्हारमालयावीतं नीलपीतपटावृतम् । कल्पत्रयांते जातास्ते गोकुले शुभलक्षणाः
इमास्ताः पुरतो रम्या उपविष्टा नतभ्रुवः । यासां धर्मकृतान्येव वलयानि प्रकोष्ठके
विचित्राणि च रत्नाद्यैर्दिव्यमुक्ताफलादिभिः । मुनिर्दीर्घतपा नाम व्यासोऽभूत्पूर्वकल्पके
तत्पुत्रः शुक इत्येव मुनिः ख्यातो वरः सुधीः । सोऽपि बालो महाप्राज्ञः सदैवानुस्मरन्पदम्
विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः । स तत्र मानसैर्दिव्यैरुपचारैरहर्निशम्
अनाहारोऽर्चयद्विष्णुं गोपरूपिणमीश्वरम् । रमया पुटितं मंत्रं जपन्नष्टादशाक्षरम्
दध्यौ परमभावेन हरिं हैमतरोरधः । हैममंडपिकायां च हेमसिंहासनोपरि
आसीनं हेमहस्ताग्रैर्दधानं हेमवंशिकाम् । दक्षिणेन भ्रामयंतं पाणिना हेमपंकजम्
हेमवर्णेष्टप्रियया परिकॢप्तांगचित्रकम् । हसंतमतिहर्षेण पश्यंतं निजमाश्रमम्
हर्षाश्रुपूर्णः पुलकाचितांगः प्रसीदनाथेति वदन्नथोच्चैः । दंडप्रणामाय पपात भूमौ संवेपमानस्त्रिजगद्विधातुः
तं भक्तिकामं पतितं धरण्यामायासितोस्मीति वदंतमुच्चैः । दंडप्रणामस्य भुजौ गृहीत्वा पस्पर्श हर्षोपचितेक्षणेन
उवाच च प्रियारूपं लब्धवंतं शुकं हरिः । त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममांतिके
मद्रूपं चिंतयंती च प्रेमास्पदमुपागता । द्वे च मुख्यतमे गोप्यौ समानवयसी शुभे
एकव्रते एकनिष्ठे एकनक्षत्रनामनी । तप्तजांबूनदप्रख्या तत्रैवान्या तडित्प्रभा
एकानिद्रा यमाणाक्षी परा सौम्यायतेक्षणा । सोऽर्चयत्परया भक्त्या ते हरेः सव्यदक्षिणे
स कल्पांते तनुं त्यक्त्वा गोकुलेऽभून्महात्मनः । उपनंदस्य दुहिता नीलोत्पलदलच्छविः
सेयं श्रीकृष्णवनिता पीतशाटीपरिच्छदा । रक्तचोलिकया पूर्णा शातकुंभघटस्तनी
दधाना रक्तसिंदूरं सर्वांगस्यावगुंठनम् । स्वर्णकुंडलविभ्राजद्गंडदेशां सुशोभनाम्
स्वर्णपंकजमालाढ्या कुंकुमालिप्तसुस्तनी । यस्या हस्ते चर्वणीयं दृश्यते हरिणार्पितम्
वेणुवाद्यातिनिपुणा केशवस्य निषेवणी । कृष्णेन परितुष्टेन कदाचिद्गीतकर्मणि