चित्रगंधेति विख्याता कुमारी च शुभानना । निजांगगंधैर्विविधैर्मोदयंती दिशो दश
तामेनां पश्य कल्याणीं वृंदशो मधुपायिनीम् । अंगेषु स्वपतिं कृत्वा रसावेशसमाकुलाम्
अस्याः स्तनपरिष्वंगे हारैः सर्वैर्विहन्यते । वक्षःस्थलात्प्रच्यवद्भिश्चित्रगंधादिसौरभैः
अपरे मुनिवर्यास्तु सततं पूतमानसाः । वायुभक्षास्तपस्तेपुर्जपंतः परमं मनुम्
स्मरः कृष्णाय कामार्ति कलादिवृत्तिशालिने । आग्नेयीसहितं कृत्वा मंत्रं पंचदशाक्षरम्
दध्युर्मुनिवराः कष्णमूर्तिं दिव्यविभूषणाम् । दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम्
मयूरपिच्छकैः कॢप्तचूडामुज्ज्वलकुंडलाम् । सव्यजंघांत आदाय दक्षिणं चरणांबुजम्
भ्रमंतीं संपुटीकृत्य चारुहस्तांबुजद्वयम् । कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुटीम्
आनंदयंतीं गोपीनां नयनानि मनांसि च । परमाश्चर्यरूपेण प्रविष्टां रंगमंडपे
प्रसूनवर्षर्गोपीभिः पूर्यमाणां च सर्वतः । अथ कल्पांतरे देहं त्यक्त्वा जाता इहाधुना
यासां कर्णेषु दृश्यंते ताटंका रश्मिदीपिताः । रत्नमाल्यानि कंठेषु रत्नपुष्पाणि वेणिषु
मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः । कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ
ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनुम् । ह्रीं हंस इति कृत्वैव जपंतौ यतमानसौ
ध्यायंतौ गोकुले कृष्णं बालकं दशवार्षिकम् । कंदर्पसमरूपेण तारुण्यललितेन च
पश्यंतीर्व्रजबिंबोष्ठीर्मोहयंतमनारतम् । तौ कल्पांते तनूं त्यक्त्वा लब्धवंतौ जनिं व्रजे
सुवीरनाम गोपस्य सुते परमशोभने । ययोर्हस्ते प्रदृश्येते सारिके शुभराविणी
जटिलो जंघपूतश्च घृताशी कर्बुरेव च । चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः
केवलेनैकभावेन प्रपन्ना बल्लवीपतिम् । तेपुस्ते सलिले मग्ना जपंतो मनुमेव च
रमात्रयेण पुटितं स्मराद्यं तदशाक्षरम् । दध्युश्च गाढभावेन बल्लवीभिर्वने वने
भ्रमंतं नृत्यगीताद्यैर्मानयंतं मनोहरम् । चंदनालिप्तसर्वांगं जपापुष्पावतंसकम्
कल्हारमालयावीतं नीलपीतपटावृतम् । कल्पत्रयांते जातास्ते गोकुले शुभलक्षणाः
इमास्ताः पुरतो रम्या उपविष्टा नतभ्रुवः । यासां धर्मकृतान्येव वलयानि प्रकोष्ठके
विचित्राणि च रत्नाद्यैर्दिव्यमुक्ताफलादिभिः । मुनिर्दीर्घतपा नाम व्यासोऽभूत्पूर्वकल्पके
तत्पुत्रः शुक इत्येव मुनिः ख्यातो वरः सुधीः । सोऽपि बालो महाप्राज्ञः सदैवानुस्मरन्पदम्
विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः । स तत्र मानसैर्दिव्यैरुपचारैरहर्निशम्
अनाहारोऽर्चयद्विष्णुं गोपरूपिणमीश्वरम् । रमया पुटितं मंत्रं जपन्नष्टादशाक्षरम्
दध्यौ परमभावेन हरिं हैमतरोरधः । हैममंडपिकायां च हेमसिंहासनोपरि
आसीनं हेमहस्ताग्रैर्दधानं हेमवंशिकाम् । दक्षिणेन भ्रामयंतं पाणिना हेमपंकजम्
हेमवर्णेष्टप्रियया परिकॢप्तांगचित्रकम् । हसंतमतिहर्षेण पश्यंतं निजमाश्रमम्
हर्षाश्रुपूर्णः पुलकाचितांगः प्रसीदनाथेति वदन्नथोच्चैः । दंडप्रणामाय पपात भूमौ संवेपमानस्त्रिजगद्विधातुः