तच्छ्रुत्वा वचनं तस्या मुनिरत्यंतविस्मितः । पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभम्
पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविरोचनम् । तयोक्तं मंत्रमाज्ञाय जगाम मानसं सरः
ततोऽतिदुश्चरं चक्रे तपो विस्मयकारकम् । एकपादस्थितः सूर्यं निर्निमेषं विलोकयन्
मंत्रं जजाप परमं पंचविंशतिवर्णकम् । दध्यौ परमभावेन कृष्णमानंदरूपिणम्
चरंतं व्रजवीथीषु विचित्रगतिलीलया । ललितैः पादविन्यासैः क्वणयंतं च नूपुरम्
चित्रकंदर्पचेष्टाभिः सस्मितापांगवीक्षितैः । संमोहनाख्यया वंश्या पंचमारुणचित्रया
बिंबौष्ठपुटचुंबिन्या कलालापैर्मनोज्ञया । हरंतं व्रजरामाणां मनांसि च वपूंषि च
श्लथन्नीवीभिरागत्य सहसालिंगितांगकम् । दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम्
श्यामलांगप्रभापूर्णैर्मोहयंतं जगत्त्रयम् । स एवं बहुदेवेन समुपास्य जगत्पतिम्
नवकल्पांतरे जाता गोकुले दिव्यरूपिणी । कन्या प्रचंडनाम्नस्तु गोपस्याति यशस्विनः
चित्रगंधेति विख्याता कुमारी च शुभानना । निजांगगंधैर्विविधैर्मोदयंती दिशो दश
तामेनां पश्य कल्याणीं वृंदशो मधुपायिनीम् । अंगेषु स्वपतिं कृत्वा रसावेशसमाकुलाम्
अस्याः स्तनपरिष्वंगे हारैः सर्वैर्विहन्यते । वक्षःस्थलात्प्रच्यवद्भिश्चित्रगंधादिसौरभैः
अपरे मुनिवर्यास्तु सततं पूतमानसाः । वायुभक्षास्तपस्तेपुर्जपंतः परमं मनुम्
स्मरः कृष्णाय कामार्ति कलादिवृत्तिशालिने । आग्नेयीसहितं कृत्वा मंत्रं पंचदशाक्षरम्
दध्युर्मुनिवराः कष्णमूर्तिं दिव्यविभूषणाम् । दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम्
मयूरपिच्छकैः कॢप्तचूडामुज्ज्वलकुंडलाम् । सव्यजंघांत आदाय दक्षिणं चरणांबुजम्
भ्रमंतीं संपुटीकृत्य चारुहस्तांबुजद्वयम् । कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुटीम्
आनंदयंतीं गोपीनां नयनानि मनांसि च । परमाश्चर्यरूपेण प्रविष्टां रंगमंडपे
प्रसूनवर्षर्गोपीभिः पूर्यमाणां च सर्वतः । अथ कल्पांतरे देहं त्यक्त्वा जाता इहाधुना
यासां कर्णेषु दृश्यंते ताटंका रश्मिदीपिताः । रत्नमाल्यानि कंठेषु रत्नपुष्पाणि वेणिषु
मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः । कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ
ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनुम् । ह्रीं हंस इति कृत्वैव जपंतौ यतमानसौ
ध्यायंतौ गोकुले कृष्णं बालकं दशवार्षिकम् । कंदर्पसमरूपेण तारुण्यललितेन च
पश्यंतीर्व्रजबिंबोष्ठीर्मोहयंतमनारतम् । तौ कल्पांते तनूं त्यक्त्वा लब्धवंतौ जनिं व्रजे
सुवीरनाम गोपस्य सुते परमशोभने । ययोर्हस्ते प्रदृश्येते सारिके शुभराविणी
जटिलो जंघपूतश्च घृताशी कर्बुरेव च । चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः
केवलेनैकभावेन प्रपन्ना बल्लवीपतिम् । तेपुस्ते सलिले मग्ना जपंतो मनुमेव च
रमात्रयेण पुटितं स्मराद्यं तदशाक्षरम् । दध्युश्च गाढभावेन बल्लवीभिर्वने वने
भ्रमंतं नृत्यगीताद्यैर्मानयंतं मनोहरम् । चंदनालिप्तसर्वांगं जपापुष्पावतंसकम्