विकासिकमलामोदवायुना परिशीलिताम् । तस्याः पश्चिमदिग्भागे मूले वटमहीरुहः
अपश्यत्तापसीं कांचित्कुर्वंतीं दारुणं तपः । तारुण्यवयसायुक्तां रूपेणाति मनोहराम्
चंद्रांशुं सदृशाभासां सर्वावयवशोभनाम् । कृत्वा कटितटे वामपाणिं दक्षिणतस्तदा
ज्ञानमुद्रां च बिभ्राणामनिमेषविलोचनाम् । त्यक्ताहारविहारां च सुनिश्चलतयास्थिताम्
जिज्ञासुस्तां मुनिवरस्तस्थौ तत्र शतं समाः । तदंते तां समुत्थाप्य चलितां विनयान्मुनिः
अपृच्छत्का त्वमाश्चर्यरूपे किं वा चरिष्यसि । यदि योग्यं भवेत्तर्हि कृपया वक्तुमर्हसि
अथाब्रवीच्छनैर्बाला तपसातीव कर्शिता । ब्रह्मविद्याहमतुला योगींद्रैर्या विमृग्यते
साहं हरिपदाम्भोजकाम्यया सुचिरं तपः । चराम्यस्मिन्वने घोरे ध्यायंती पुरुषोत्तमम्
ब्रह्मानंदेन पूर्णाहं तेनानंदेन तृप्तधीः । तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना
इदानीमतिनिर्विण्णा देहस्यास्य विसर्ज्जनम् । कर्त्तुमिच्छामि पुण्यायां वापिकायामिहैव तु
तच्छ्रुत्वा वचनं तस्या मुनिरत्यंतविस्मितः । पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभम्
पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविरोचनम् । तयोक्तं मंत्रमाज्ञाय जगाम मानसं सरः
ततोऽतिदुश्चरं चक्रे तपो विस्मयकारकम् । एकपादस्थितः सूर्यं निर्निमेषं विलोकयन्
मंत्रं जजाप परमं पंचविंशतिवर्णकम् । दध्यौ परमभावेन कृष्णमानंदरूपिणम्
चरंतं व्रजवीथीषु विचित्रगतिलीलया । ललितैः पादविन्यासैः क्वणयंतं च नूपुरम्
चित्रकंदर्पचेष्टाभिः सस्मितापांगवीक्षितैः । संमोहनाख्यया वंश्या पंचमारुणचित्रया
बिंबौष्ठपुटचुंबिन्या कलालापैर्मनोज्ञया । हरंतं व्रजरामाणां मनांसि च वपूंषि च
श्लथन्नीवीभिरागत्य सहसालिंगितांगकम् । दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम्
श्यामलांगप्रभापूर्णैर्मोहयंतं जगत्त्रयम् । स एवं बहुदेवेन समुपास्य जगत्पतिम्
नवकल्पांतरे जाता गोकुले दिव्यरूपिणी । कन्या प्रचंडनाम्नस्तु गोपस्याति यशस्विनः
चित्रगंधेति विख्याता कुमारी च शुभानना । निजांगगंधैर्विविधैर्मोदयंती दिशो दश
तामेनां पश्य कल्याणीं वृंदशो मधुपायिनीम् । अंगेषु स्वपतिं कृत्वा रसावेशसमाकुलाम्
अस्याः स्तनपरिष्वंगे हारैः सर्वैर्विहन्यते । वक्षःस्थलात्प्रच्यवद्भिश्चित्रगंधादिसौरभैः
अपरे मुनिवर्यास्तु सततं पूतमानसाः । वायुभक्षास्तपस्तेपुर्जपंतः परमं मनुम्
स्मरः कृष्णाय कामार्ति कलादिवृत्तिशालिने । आग्नेयीसहितं कृत्वा मंत्रं पंचदशाक्षरम्
दध्युर्मुनिवराः कष्णमूर्तिं दिव्यविभूषणाम् । दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम्
मयूरपिच्छकैः कॢप्तचूडामुज्ज्वलकुंडलाम् । सव्यजंघांत आदाय दक्षिणं चरणांबुजम्
भ्रमंतीं संपुटीकृत्य चारुहस्तांबुजद्वयम् । कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुटीम्
आनंदयंतीं गोपीनां नयनानि मनांसि च । परमाश्चर्यरूपेण प्रविष्टां रंगमंडपे
प्रसूनवर्षर्गोपीभिः पूर्यमाणां च सर्वतः । अथ कल्पांतरे देहं त्यक्त्वा जाता इहाधुना