कुंकुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः । शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम्
शंखचक्रगदापद्मकिरीटादि विभूषितम् । रक्तं चतुर्भुजं पद्मशंखचक्रगदायुधम्
किरीटकुंडलोद्दीप्त द्वारपालकमुत्तरे । गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम्
किरीटकुंडलाद्यैश्च शोभितं वनमालिनम् । पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम्
कृष्णवर्णं चतुर्बाहुं शंखचक्रादिभूषणम् । दक्षिणद्वारपालं तु श्रीविष्णुंकृष्णवर्णकम्
श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः । शृणुयाद्वापि यो भक्त्या गोविंदे लभते रतिम्
इति श्रीपद्मपुराणे पातालखंडे कृष्णचरिते सप्ततितमोऽध्यायः
ईश्वर उवाच-। तदेकाग्रमना भूत्वा शृणु देवि वरानने । आसीदुग्रतपा नाम मुनिरेको दृढव्रतः
साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः । जजाप परमं जाप्यं मंत्रं पंचदशाक्षरम्
काममंत्रेण पुटितं कामं कामवरप्रदात् । कृष्णायेति पदं स्वाहा सहितं सिद्धिदं परम्
दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम् । पीतपट्टधरं वेणुं करेणाधरमर्पितम्
नवयौवनसंपन्नं कर्षंतं पाणिना प्रियाम् । एवं ध्यानपरः कल्पशतांते देहमुत्सृजन्
सुनंद नाम गोपस्य कन्याभूत्स महामुनिः । सुनंदेति समाख्याता या वीणां बिभ्रती करे
मुनिरन्यः सत्यतपा इति ख्यातो महाव्रतः । सशुष्कपत्रं भुंक्ते यः प्रजजाप परं मनुम्
रत्यंतं कामबीजेन पुटितं च दशाक्षरम् । स प्रदध्यौ मुनिवरश्चित्रवेषधरं हरिम्
धृत्वा रमाया दोर्वल्लीद्वितयं कंकणोज्ज्वलम् । नृत्यंतमुन्मदंतं च संश्लिष्यं तं मुहुर्मुहुः
हसंतमुच्चैरानंदतरंगं जठरांबरे । दधतं वेणुमाजानु वैजयंत्या विराजितम्
स्वेदांभः कणसंसिक्त ललाटवलिताननम् । त्यक्त्वा त्यक्त्वा स वै देहं तपसा च महामुनिः
दशकल्पांतरे जातो ह्ययं नंदवनादिह । सुभद्र नाम्नो गोपस्य कन्या भद्रेति विश्रुता
यस्याः पृष्ठतले दिव्यं व्यजनं परिदृश्यते । हरिधामाभिधानस्तु कश्चिदासीन्महामुनिः
सोऽप्यतप्यत्तपः कृच्छ्रं नित्यं पत्रैकभोजनम् । आशुसिद्धिकरं मंत्रं विंशत्यर्णं प्रजप्तवान्
अनंतरं कामबीजादध्यारूढं तदेव तु । माया तत्पुरतो व्योम हंसासृग्द्युतिचंद्रकम्
ततो दशाक्षरं पश्चान्नमोयुक्तं स्मरादिकम् । दध्यौ वृंदावने रम्ये माधवीमंडपे प्रभुम्
उत्तानशायिनं चारुपल्लवास्तरणोपरि । कयाचिदतिकामार्त्त बल्लव्या रक्तनेत्रया
वक्षोजयुगमाच्छाद्य विपुलोरः स्थलं मुहुः । संचुंब्यमानगंडांतं तृप्यमानरदच्छदम्
कलयंतं प्रियां दोर्भ्यां सहासं समुदाद्भुतम् । स मुनिश्च बहून्देहां स्त्यक्त्वा कल्पत्रयांतरे
सारंगनाम्नो गोपस्य कन्याभूच्छुभलक्षणा । रंगवेणीति विख्याता निपुणा चित्रकर्मणि
यस्या दंतेषु दृश्यंते चित्रिताः शोणबिंदवः । ब्रह्मवादी मुनिः कश्चिज्जाबालिरिति विश्रुतः
सतपः सुरतो योगी विचरन्पृथिवीमिमाम् । स एकस्मिन्महारण्ये योजनायुतविस्तृते
यदृच्छयागतोऽपश्यदेकां वापीं सुशोभनाम् । सर्वतः स्फाटिकाबंधतटां स्वादुजलान्विताम्