प्रद्युम्नं च रती देवं तत्रोपरिसुखस्थितम् । जगन्मोहनसौंदर्य्यसारश्रेणीरसात्मकम्
असितांभोजपुंजाभमरविंददलेक्षणम् । दिव्यालंकारभूषाभिर्दिव्यगंधानुलेपनम्
जगन्मुग्धीकृताशेष सौंदर्याश्चर्यविग्रहम् । पूर्वोद्याने महारण्ये सुरद्रुम समाश्रये
तत्राधस्तु स्वर्णपीठे हेममंडपमंडिते । तस्य मध्ये स्थिरे राजद्दिव्यसिंहासनोज्ज्वले
दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम् । सांद्रानंदघनश्यामं सुस्निग्धं नीलकुंतलम्
सुभ्रून्नतलताभंगीं सुकपोलं सुनासिकम् । सुग्रीवं सुंदरं वक्षो मनोहर मनोहरम्
किरीटिनं कुंडलिनं कंठभूषाविभूषितम् । मंजुमंजीरमाधुर्यादतिसौंदर्य विग्रहम्
प्रियभृत्यगणाराध्यं यत्र संगीतकप्रियम् । पूर्णब्रह्मसदानंदं शुद्धसत्वस्वरूपकम्
तस्योर्द्ध्वे चांतरिक्षे च विष्णुं सर्वेश्वरेश्वरम् । अनादिमादिचिद्रूपं चिदानंदं परं विभुम्
त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम् । समेघपुंजमाधुर्यसौंदर्यश्यामविग्रहम्
नीलकुंचितसुस्निग्ध केशपाशातिसुंदरम् । अरविंददलस्निग्ध सुदीर्घचारुलोचनम्
किरीटकुंडलोद्गंड शुद्धसत्वात्मभिर्वृतम् । आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः
हृदयारूढ तद्ध्य्नौर्नासाग्रन्यस्तलोचनैः । क्रियतेऽहैतुकीभक्तिः कायहृद्वृत्तिभाषितैः
तत्सव्ये यक्षगंधर्वसिद्धविद्याधरादिभिः । सुकांतैरप्सरःसंघैर्नृत्यसंगीततत्परैः
तदंगभजनं कामं वांछद्भिः कृष्णलालसैः । तदग्रे वैष्णवैः सर्वैश्चांतरिक्षे सुखासने
प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः । जनकाद्यैर्लसद्भावैर्हृद्बाह्य स्फूर्तितत्परैः
पुलकाकुलसर्वांगैः स्फुरत्प्रेमसमाकुलैः । रहस्यामृतसंसिक्तैरर्द्धयुग्माक्षरो मनुः
मंत्रचूडामणिः प्रोक्तः सर्वमंत्रैककारणम् । सर्वदेवस्य मंत्राणां कैशोरं मंत्रहेतुकम्
सर्वकैशोरमंत्राणां हेतुश्चूडामणिर्मनुः । जपं कुर्वंति मनसा पूर्णप्रेमसुखाश्रयाः
वांछंति तत्पदांभोजे निश्चलं प्रेमसाधनम् । तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे
कुंकुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः । शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम्
शंखचक्रगदापद्मकिरीटादि विभूषितम् । रक्तं चतुर्भुजं पद्मशंखचक्रगदायुधम्
किरीटकुंडलोद्दीप्त द्वारपालकमुत्तरे । गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम्
किरीटकुंडलाद्यैश्च शोभितं वनमालिनम् । पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम्
कृष्णवर्णं चतुर्बाहुं शंखचक्रादिभूषणम् । दक्षिणद्वारपालं तु श्रीविष्णुंकृष्णवर्णकम्
श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः । शृणुयाद्वापि यो भक्त्या गोविंदे लभते रतिम्
इति श्रीपद्मपुराणे पातालखंडे कृष्णचरिते सप्ततितमोऽध्यायः
ईश्वर उवाच-। तदेकाग्रमना भूत्वा शृणु देवि वरानने । आसीदुग्रतपा नाम मुनिरेको दृढव्रतः
साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः । जजाप परमं जाप्यं मंत्रं पंचदशाक्षरम्
काममंत्रेण पुटितं कामं कामवरप्रदात् । कृष्णायेति पदं स्वाहा सहितं सिद्धिदं परम्