वृंदावनेश्वरी राधा तथा चंद्रावली प्रिया । अभिन्नगुणलावण्य सौंदर्याश्चारुलोचनाः
मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः । अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः
शुद्धकांचनपुंजाभाः सुप्रसन्नाः सुलोचनाः । तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः
श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः । नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः
श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः । जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः
नानासत्वस्वरालापमुग्धीकृतजगत्त्रयाः । तत्र गूढरहस्यानि गायंत्यः प्रेमविह्वलाः
देवकन्यास्ततः सव्ये दिव्यवेषारसोज्ज्वलाः । नानावैदिग्ध्यनिपुणा दिव्यभावभरान्विताः
सौंदर्यातिशयेनाढ्याः कटाक्षातिमनोहराः । निर्लज्जास्तत्र गोविंदे तदंगस्पर्शनोद्यताः
तद्भावमग्नमनसः स्मितसाचि निरीक्षणाः । मंदिरस्य ततो बाह्ये प्रियया विशदावृते
समानवेषवयसः समानबलपौरुषाः । समानगुणकर्माणः समानाभरणप्रियाः
समानस्वरसंगीत वेणुवादनतत्पराः । श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे
सुदामा च तथा पूर्वे किंकिणी चापि दक्षिणे । तद्बाह्ये स्वर्णपीठे च सुवर्णमंदिरावृते
स्वर्णवेद्यंतरस्थे तु स्वर्णाभरणभूषिते । स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः
शृंगवीणावेणुवेत्रवयोवेषाकृतिस्वरैः । तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः
चित्रार्पितैश्चित्ररूपैः सदानंदाश्रुवर्षिभिः । पुलकाकुलसर्वांगैर्योगींद्रैरिव विस्मितैः
क्षरत्ययोभिर्गोविंदैरसंख्यातैरुपावृतम् । तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले
चतुर्दिक्षुमहोद्यानं मंजुसौरभमोहिते । पश्चिमे संमुखे श्रीमत्पारिजातद्रुमाश्रये
तदधस्तु स्वर्णपीठे स्वर्णमंडनमंडिते । तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले
तत्रोपरि परानंदं वासुदेवं जगत्प्रभुम् । त्रिगुणातीतचिद्रूपं सर्वकारणकारणम्
इंद्रनीलघनश्यामं नीलकुंचितकुंतलम् । पद्मपत्रविशालाक्षं मकराकृतिकुंडलम्
चतुर्भुजं तु चक्रासिगदाशंखांबुजायुधम् । आद्यंतरहितं नित्यं प्रधानं पुरुषोत्तमम्
ज्योतीरूपं महद्धाम पुराणं वनमालिनम् । पीतांबरधरं स्निग्धं दिव्यभूषणभूषितम्
दिव्यानुलेपनं राजच्चित्रितांग मनोहरम् । रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा
मित्रविंदानुविंदा सुनंदा जांबवती प्रिया । सुशीला चाष्टमहिला वासुदेवप्रियास्ततः
उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः । उत्तरे सुमहोद्याने हरिचंदनसंश्रये
तत्राधस्तु स्वर्णपीठे मणिमंडपमंडिते । तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले
तत्रैव सह रेवत्या संकर्षण हलायुधम् । ईश्वरस्य प्रियानंतमभिन्नगुणरूपिणम्
शुद्धस्फटिकसंकाशं रक्तांबुज दलेक्षणम् । नीलपट्टधरं स्निग्धं दिव्यभूषास्रगंबरम्
मधुपाने सदासक्तं मधुघूर्णितलोचनम् । प्रवीरदक्षिणेभागे मंजुनाभ्यंतरस्थिते
संतानवृक्षमूले तु मणिमंदिरमंडितम् । तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले