वृतो गछन्पथि श्रीमान्स्तुतस्त्रिदशवंदितः । गत्वा विवेश तं चागं महादेवपुरःसरः
तस्मै द्विजाय वै तस्य दर्शयन्रमणीयताम् । अथ तस्मात्तु कैलासान्महादेवेन वंदितः
माधवः परया भक्त्या वैकुंठमगमत्तदा । द्विजः सोऽपि महाभागस्तीर्थस्यास्य प्रसादतः
गोविंददर्शनं प्राप्य मुमुदे हरसन्निधौ । एतत्ते कथितं राजन्शिवकांच्यास्तु वैभवम्
तीर्थसप्तकनाम्नस्तु शृणुष्व सुसमाहितः । तीर्थमेतन्महाराज चतुर्वर्गफलप्रदम्
दर्शनात्स्पर्शनाद्ध्यानात्स्मरणादपि भूपते । वसिष्ठादिभिरेतस्मिन्महर्षिभिरनुष्ठितम्
महत्तपस्तु सृष्ट्यर्थं तत्रासंस्तु क्षमा नृप । मरीचिरपि धर्मात्मा पुत्रार्थं स्नानमाचरन्
अत्र लेभे महाभागः कश्यपं सुतमुत्तमम् । अत्रिरत्रापि तपसा तोषयद्देवपुंगवान्
सोमं दुर्वाससं दत्तं तेभ्यो लेभे सुतत्रयम् । अंगिरा अपि धर्मात्मा तीर्थस्यास्य प्रसादतः
लेभे सुतांस्तुतद्वंश्या जाता आंगिरसा द्विजाः । पुलहोऽपि सुतं लेभे दंभोलि गुणवत्तरम्
योऽगस्त्योभूत्पुरा राजंस्तीर्थेऽत्रैव निमज्जनात् । पुलस्त्यस्यात्र तीर्थे वै पुत्रो लब्धो तपस्यतः
कुबेरोभून्महाभागो यः सखासीदुमापतेः । क्रतोरपि सुता जाता वालखिल्याः सहस्रशः
तीर्थस्यास्य प्रसादेन ते सर्वे ह्यूर्ध्वरेतसः । रजआदीन्सुताँ लेभे वसिष्ठोऽपि महातपाः
सप्तैव राजशार्दूल महिमा तस्य वर्णितः । अन्यान्यपि च तीर्थानि संत्यनेकानि भूपते
कपिलाश्रमकेदारप्रभासादीनि वै प्रभौ । नियुतैरपि वर्षाणां तेषां च महिमा नृप । अनंतेनापि नो वक्तुं शक्यते किमु मादृशैः
सौभरिरुवाच- एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिपुंगवः । शिवं जगाम नभसो नारायणगुणान्गृणन्
शिबिरौशीनरो राजा शक्रप्रस्थस्य वैभवम् । श्रुत्वा मुनिमुखाद्राजन्कृतार्थं स्वममन्यत
तत्र स्नात्वा हि विधिवदिंद्रप्रस्थे स भूपतिः । विधाय सत्क्रियाः सर्वा जगाम निजपत्तनम्
इंद्रप्रस्थस्य माहात्म्यमेतत्तव मया विभो । यमुनातीरतीर्थस्य वर्णितं जनपावनम्
नास्यादरं करिष्यंति कलौ श्रद्धाविवर्जिताः । इंद्रप्रस्थस्य राजेंद्र सर्वतीर्थशिरोमणेः
अष्टादशपुराणानां श्रवणाद्भारतस्य च । यत्फलं तन्महिम्नस्य शक्रप्रस्थस्य जायते
अरुणोदयवेलायां माघलक्षैकमज्जनात् । यत्फलं तन्महिम्नोस्य श्रवणाच्छ्रद्धया भवेत्
श्रद्धयास्य तु माहात्म्यं यः शृणोति महीपते । तर्पितास्तेन पितरो देवाश्च मुनयस्तथा
कृच्छ्रातिकृच्छ्रपाराक चांद्रायण व्रतादिभिः । यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत्
अश्वमेधादियज्ञानां समस्तानां महीपते । यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत्
सूत उवाच- एवं युधिष्ठिरो राजा श्रुत्वा शौनक सौभरेः । इंद्रप्रस्थस्य माहात्म्यं स ययौ हस्तिनं पुरम्
ततो विनीय सद्भ्रातॄन्दुर्योधनपुरःसरान् । इंद्रप्रस्थमगात्पुण्यं राजसूयचिकीर्षया
द्वारकायाः समागम्य गोविंदं कुलदैवतम् । राजसूयेन यज्ञेन स इयाज महीपतिः
मुक्तिदं तीर्थमेतत्तु शपतोस्याप्यजायत । इति मत्वा हरिस्तत्र शिशुपालं जघान ह
शिशुपालोऽपि तस्यैव तीर्थस्य मरणाद्भुवि । सायुज्यमगमत्कृष्णे निखिलार्थप्रदायके