सौमित्रिरप्यूर्मिलया मांडव्या भरतो नृपः । शत्रुघ्नः श्रुतकीर्त्या च कांतिमत्या च पुष्कलः
सुबाहुः सत्यवत्या च सत्यवान्वीरभूषया । सुमदस्तत्र सत्कीर्त्या राज्ञ्या च विमलो नृपः
राजावीरमणिस्तत्र श्रुतवत्या मनोज्ञया । लक्ष्मीनिधिः कोमलया रिपुतापोंगसेनया
विभीषणो महामूर्त्या प्रतापाग्र्यः प्रतीतया । उग्राश्वः कामगमया नीलरत्नोधिरम्यया
सुरथः सुमनोहार्या तथा मोहनया कपिः । इत्यादीन्नृपतीन्विप्रो वसिष्ठः प्राहिणोन्मुनिः
वसिष्ठः सरयूं गत्वा शिवपुण्यजलाप्लुताम् । उदकं मंत्रयामास वेदमंत्रेण मंत्रवित्
पयः पुनीह्यमुं वाहमुदकेन मनोहृता । यज्ञार्थं रामचंद्रस्य सर्वलोकैकरक्षितुः
उदकं तन्मुनिस्पृष्टं सर्वे रामादयो नृपाः । आजह्रुर्मंडपतले विप्रवर्यैरुपस्तुते
पयोभिर्निर्मलैः स्नाप्य वाजिनं क्षीरसन्निभम् । मंत्रेण मंत्रयामास राम हस्तेन कुंभजः
पुनीहि मां महावाह अस्मिन्ब्रह्मसमाकुले । त्वन्मेधेनाखिला देवाः प्रीणंतु परितोषिताः
इत्युक्त्वा स नृपो रामः सीतया सममस्पृशत् । तदा सर्वे द्विजाश्चित्रममन्यंत कुतूहलात्
परस्परमवोचंस्ते यन्नामस्मरणान्नराः । महापापात्प्रमुच्यंते स रामः किं वदत्यहो
इत्युक्तवति भूमीशे रामे कुंभोद्भवो मुनिः । करवालं चाभिमंत्र्य ददौ रामकरे मुनिः
करवाले धृते स्पृष्टे रामेण स हयः क्रतौ । पशुत्वं तु विहायाशु दिव्यरूपमपद्यत
विमानवरमारूढश्चाप्सरोभिः समंततः । चामरैर्वीज्यमानश्च वैजयंत्या विभूषितः
तदा तं वाजितां त्यक्त्वा दिव्यरूपधरं वरम् । वीक्ष्य लोकाः क्रतौ सर्वे विस्मयं प्राप्नुवंस्तदा
तदा रामः स्वयं जानञ्ज्ञापयन्सर्वतो नरान् । पप्रच्छ दिव्यरूपं तं सुरं परमधार्मिकः
कस्त्वं दिव्यवपुः प्राप्तः कस्मात्त्वं वाजितां गतः । कथं सुरस्त्रीसहितः किं चिकीर्षसि तद्वद
रामस्य वचनं श्रुत्वा देवः प्रोवाच भूमिपम् । हसन्मेघरवां वाणीमवदत्सुमनोहराम्
तवाज्ञातं न सर्वत्र बाह्याभ्यंतरचारिणः । तथापि पृच्छते तुभ्यं कथयामि यथातथम्
अहं पुराभवे राम द्विजः परमधार्मिकः । अचरं प्रतिकूलं वै वेदस्य रिपुतापन
कदाचिद्धुतपापायास्तीरेऽहं गतवान्पुरा । अनेकवृक्षललिते सर्वत्रसुमनोरमे
तत्र स्नात्वा पितॄंस्तृप्त्वा दानं दत्त्वा यथाविधि । ध्यानं तव महाबाहो कृतवान्वेदसंमितम्
तदा जनाः समायाता बहवस्तत्र भूपते । तेषां प्रवंचनार्थाय दंभमेनमकारिषम्
अनेकक्रतुसंभारैः पूर्णमजिरमुत्तमम् । वासोभिश्छादितं रम्यं चषालादियुतं महत्
अग्निहोत्रोद्भवोधूमः सर्वतो नभसोंगणम् । चकार रम्यमतुलं चित्रकारिवपुर्धरः
अनेकतिलकश्रीभिः शोभितांगो महत्तपाः । दर्भशोभः समित्पाणिर्दंभो मूर्तिधरः किमु
दुर्वासास्तत्र स्वच्छंदं पर्यटञ्जगतीतलम् । प्राप तत्र महातेजा धूतपापसरित्तटे
ददर्श मां दंभकरं मौनधारिणमग्रतः । अनर्घ्यकरमुन्मत्तमस्वागतवचः करम्
दृष्ट्वातीव क्रुधाक्रांतः समुद्र इव पर्वणि । शशापासौ मुनिस्तीव्रो दंभिनं मां महामतिः