तापसीः सकला नत्वा मुनींश्च निगमोज्ज्वलान् । रामं स्मरंती मनसा रथे स्थित्वागमत्पुरीम्
क्रमेण नगरीं प्राप्ता महार्हाभरणान्विता । सरयूं सरितं प्राप यत्र रामः स्वयं स्थितः
रथादुत्तीर्य ललिता लक्ष्मणेन समन्विता । रामस्य पादयोर्लग्ना पतिव्रतपरायणा
रामस्तामागतां दृष्ट्वा जानकीं प्रेमविह्वलाम् । साध्वि त्वया सहेदानीं कुर्वे यज्ञसमापनम्
वाल्मीकिं सा नमस्कृत्य तथान्यान्विप्रसत्तमान् । जगाम मातृपदयोः सन्नतिं कर्तुमुत्सुका
कौशल्या तामथायांतीं वीरसूं जानकीं प्रियाम् । आशीर्भिरभिसंयुज्य ययौ हर्षमनेकधा
कैकेयीपदयोर्नम्रां वीक्ष्य वैदेहपुत्रिकाम् । भर्त्रा सह चिरं जीव सपुत्रेत्याशिषं व्यधात्
सुमित्रा स्वपदेनम्रां वीक्ष्य वैदेहपुत्रिकाम् । आशिषं व्यदधात्तस्याः पुत्रपौत्रप्रदायिनीम्
सीता ताः सर्वतो नत्वा रामचंद्र प्रिया सती । परमं हर्षमापन्ना बभूव किल वाडव
समागतां वीक्ष्य पत्नीं रामचंद्रस्य कुंभजः । सुवर्णपत्नीं धिक्कृत्य तामधाद्धर्मचारिणीम्
रामस्तदा यज्ञमध्ये शुशुभे सीतया सह । तारयानुगतो यद्वच्छशीव शरदुत्प्रभः
प्रयोगमकरोत्तत्र काले प्राप्ते मनोरमे । वैदेह्या धर्मचारिण्या सर्वपापापनोदनम्
सीतया सहितं रामं प्रसक्तं यज्ञकर्मणि । निरीक्ष्य जहृषुस्तत्र कौतुकेन समन्विताः
वसिष्ठं प्राह सुमतिं रामस्तत्र क्रतौ वरे । किं कर्तव्यं मया स्वामिन्नतः परमवश्यकम्
रामस्य वचनं श्रुत्वा गुरुः प्राह महामतिः । ब्राह्मणानां प्रकर्तव्या पूजा संतोषकारिका
मरुत्तेन क्रतुः सृष्टः पूर्वं संभारसंभृतः । ब्राह्मणास्तत्र वित्ताद्यैस्तोषिता अभवंस्तदा
अत्यंतं वित्तसंभारं नेतुं विप्राशकन्नहि । प्राक्षिपन्हिमवद्देशे वित्तभारासहा द्विजाः
तस्मात्त्वमपि राजाग्र्य लक्ष्मीवान्नृपसत्तम । देहि दानादि विप्रेभ्यो यथा स्यात्प्रीतिरुत्तमा
एतच्छ्रुत्वा स राजाग्र्यः पूज्यं मत्वा घटोद्भवम् । प्रथमं पूजयामास ब्रह्मपुत्रं तपोधनम्
अनेकरत्नसंभारैः स्वर्णभारैरनेकधा । देशैर्जनैः परिवृतैरत्यंतप्रीतिदायकैः
अगस्त्यं पूजयामास सपत्नीकं मनोरमम् । तथैव रत्नैः स्वर्णैश्च देशैश्च विविधैरपि
व्यासं सत्यवतीपुत्रं तथैव समपूजयत् । च्यवनं भार्यया साकं सुरत्नैः समपूजयत्
अन्यानपि मुनीन्सर्वानृत्विजस्तपसां निधीन् । पूजयामास रत्नौघैः स्वर्णभारैरनेकधा
अदात्तदा क्रतौ रामो विप्रेभ्यो भूरिदक्षिणाम् । लक्षंलक्षं सुवर्णस्य प्रत्येकं त्वग्रजन्मने
दीनांधकृपणेभ्यश्च ददौ दानमनेकधा । यथासंतोषविहितैर्वित्तै रत्नैर्मनोहरैः
वासांसि च विचित्राणि भोजनानि मृदूनि च । तत्र प्रादाद्यथाशास्त्रं सर्वेषां प्रीतिदायकम्
हृष्टपुष्टजनाकीर्णं सर्वसत्त्वोपबृंहितम् । अत्यंतमभवद्धृष्टं पुरं पुंस्त्रीसमावृतम्
दानं ददंतं सर्वेषां वीक्ष्य कुंभोद्भवो मुनिः । अत्यंतपरमप्रीतिं ययौ क्रतुवरे द्विजः
तदाभिषेकस्नानार्थं पानीयममृतोपमम् । आनेतुं च चतुःषष्टि नृपान्सस्त्रीन्समाह्वयत्
रामस्तु सीतया सार्द्धमानेतुमुदकं ययौ । घटेन स्वर्णवर्णेन सर्वालंकारशोभया