रघुनाथ इति ख्यातिं गमिष्यति महामनाः । तेषामनंतनामानि रामस्य बलिनः सखि
पद्मकोश इव शोभनं मुखं । पंकजाभनयने सुदीर्घके । उन्नता पृथुमनोहरा नसा । वल्गुसंगत मनोहरे भ्रुवौ
जानुलंबित मनोहरौ भुजौ । कंबुशोभिगलकोऽतिह्रस्वकः । सत्कपाटतलविस्तृतश्रिकं । वक्ष एतदमलं सलक्ष्मकम्
शोभनोरुकटिशोभया युतं । जानुयुग्मममलं स्वसेवितम् । पादपद्ममखिलैर्निजैः सदा । सेवितं रघुपतिं सुशोभनम्
एतद्रूपधरो रामो मया किं तु स वर्ण्यते । शताननोपि नो याति पक्षिणः किमु मादृशाः
यद्रूपं वीक्ष्य ललिता मनोहरवपुर्धरा । लक्ष्मीर्मुमोह भुविका वर्तते या न मोहति
महाबलो महावीर्यो महामोहनरूपधृक् । किं वर्णयामि श्रीरामं सर्वैश्वर्यगुणान्वितम्
धन्या सा जानकीदेवी महामोहनरूपधृक् । रंस्यते येन सहिता वर्षाणामयुतं मुदा
त्वं कासि किं तु नामासि बत सुंदरि यत्तु माम् । परिपृच्छसि वैदग्ध्याद्रामकीर्तनमादरात्
एतद्वाक्यं समाकर्ण्य जानकी पक्षिणोर्युगम् । उवाच जन्मललितं शंसंती स्वस्य मोहनम्
या त्वया जानकी प्रोक्ता साहं जनकपुत्रिका । स रामो मां यदाभ्येत्य प्राप्स्यते सुमनोहरः
तदा वां मोचयाम्यद्धानान्यथा वाक्यलोभिता । लालयामि सुखेनास्तां मद्गेहे मधुराक्षरौ
इत्युक्तं तत्समाकर्ण्य वेपतुर्भयतां गतौ । परस्परं प्रक्षुभितौ जानकीमित्यवोचताम्
वयं वै पक्षिणः साध्वि वनस्था वृक्षगोचराः । परिभ्रमाम सर्वत्र नो सुखं नो भवेद्गृहे
अंतर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान् । त्वत्स्थानमागमिष्यामि सत्यं मे ह्युदितं वचः
एवं प्रोक्ता तया सा तु न मुमोच शुकीं स्वयम् । तदापतिस्तां प्रोवाच विनीतवदनुत्सुकः
सीते मुंच कथं भार्यां रक्षसे मे मनोहरीम् । आवां गच्छाव विपिने विचरावः सुखं वने
अंतर्वत्नी तु वर्तेत भार्या मम मनोरमा । तस्याः प्रसूतिं कृत्वा त्वामागमिष्यामि शोभने
इत्युक्ता निजगादेमं सुखं गच्छ महामते । एतां रक्षामि सुखिनीं मत्पार्श्वे प्रियकारिणीम्
इत्युक्तो दुःखितः पक्षी तामूचे करुणान्वितः । योगिभिः प्रोच्यते यद्वै तद्वचस्तथ्यमेव हि
न वक्तव्यं न वक्तव्यं मौनमाश्रित्य तिष्ठताम् । नोचेत्स वाक्यदोषेण प्राप्नोत्यालानमुन्मदः
वयं चेदत्र वाक्यं नाकरिष्याम नगोपरि । बंधनं कथमावां स्यात्तस्मान्मौनं समाचरेत्
इत्युक्त्वा तां प्रत्युवाच नाहं जीवामि सुंदरि । एतया भार्यया सीते तस्मान्मुंच मनोहरे
अनेकविधवाक्यैः सा बोधिता नामुचत्तदा । कुपिता दुःखिता भार्या शशाप जनकात्मजाम्
यथा त्वं पतिना सार्धं वियोजयसि मामितः । तथा त्वमपि रामेण वियुक्ता भव गर्भिणी
इत्युक्तवत्यां तस्यां तु दुःखितायां पुनः पुनः । प्राणा निरगमन्दुःखात्पतिदुःखेन पूरितात्
रामं रामं स्मरंत्याश्च वदंत्यांश्च पुनः पुनः । विमानमागतं सुष्ठु पक्षिणी स्वर्गता बभौ
तस्यां मृतायां दुःखार्तो भर्ता तस्याः स पक्षिराट् । परमं क्रोधमापन्नो जाह्नव्यां दुःखितोऽपतत्
तथा भवामि रामस्य नगरे जनपूरिते । मद्वाक्यादियमुद्विग्ना वियोगेन सुदुःखिता
इत्युक्त्वा स पपातोदे जाह्नव्या भ्रमशोभिते । दुःखितः कुपितो भीतस्तद्वियोगेन कंपितः