स कौशिकेन मिथिलां प्राप्स्यते भ्रातृसंयुतः । धनुष्पाणिस्तदा दृष्ट्वा दुर्ग्राह्यमन्यभूभुजाम्
धनुर्भंक्त्वा जनकजां प्राप्स्यते सुमनोहराम् । तया सह महद्राज्यं करिष्यति श्रुतं वरे
एतदन्यच्च तत्रस्थैः श्रुतमस्माभिरुद्गतैः । कथितं तव चार्वंगि मुंचावां गंतुकामुकौ
इति वाक्यं तयोर्धृत्वा श्रोत्रयोः सुमनोहरम् । पुनरेवजगादेदं वाक्यं पक्षियुगं प्रति
स रामः कुत्र वर्तेत कस्य पुत्रः कथं तु ताम् । परिग्रहीष्यति वरः कीदृग्रूपधरो नरः
मया पृष्टमिदं सर्वं कथयंतु यथातथम् । पश्चात्सर्वं करिष्यामि प्रियं युष्मन्मनोहरम्
तच्छ्रुत्वा तां तु कामेन पीडितां वीक्ष्य सा शुकी । जानकीं हृदये ज्ञात्वा पपाठ पुरतस्ततः
सूर्यवंशध्वजो धीमान्राजा पंक्तिरथो बली । यं देवाः श्रित्य सर्वारीन्विजेष्यंति च सर्वशः
तस्य भार्यात्रयं भावि शक्रमोहनरूपधृक् । तस्मिन्नपत्य चातुष्कं भविष्यति बलोन्नतम्
सर्वेषामग्रजो रामो भरतस्तदनुस्मृतः । लक्ष्मणस्तदनु श्रीमाञ्छत्रुघ्नः सर्वतो बली
रघुनाथ इति ख्यातिं गमिष्यति महामनाः । तेषामनंतनामानि रामस्य बलिनः सखि
पद्मकोश इव शोभनं मुखं । पंकजाभनयने सुदीर्घके । उन्नता पृथुमनोहरा नसा । वल्गुसंगत मनोहरे भ्रुवौ
जानुलंबित मनोहरौ भुजौ । कंबुशोभिगलकोऽतिह्रस्वकः । सत्कपाटतलविस्तृतश्रिकं । वक्ष एतदमलं सलक्ष्मकम्
शोभनोरुकटिशोभया युतं । जानुयुग्मममलं स्वसेवितम् । पादपद्ममखिलैर्निजैः सदा । सेवितं रघुपतिं सुशोभनम्
एतद्रूपधरो रामो मया किं तु स वर्ण्यते । शताननोपि नो याति पक्षिणः किमु मादृशाः
यद्रूपं वीक्ष्य ललिता मनोहरवपुर्धरा । लक्ष्मीर्मुमोह भुविका वर्तते या न मोहति
महाबलो महावीर्यो महामोहनरूपधृक् । किं वर्णयामि श्रीरामं सर्वैश्वर्यगुणान्वितम्
धन्या सा जानकीदेवी महामोहनरूपधृक् । रंस्यते येन सहिता वर्षाणामयुतं मुदा
त्वं कासि किं तु नामासि बत सुंदरि यत्तु माम् । परिपृच्छसि वैदग्ध्याद्रामकीर्तनमादरात्
एतद्वाक्यं समाकर्ण्य जानकी पक्षिणोर्युगम् । उवाच जन्मललितं शंसंती स्वस्य मोहनम्
या त्वया जानकी प्रोक्ता साहं जनकपुत्रिका । स रामो मां यदाभ्येत्य प्राप्स्यते सुमनोहरः
तदा वां मोचयाम्यद्धानान्यथा वाक्यलोभिता । लालयामि सुखेनास्तां मद्गेहे मधुराक्षरौ
इत्युक्तं तत्समाकर्ण्य वेपतुर्भयतां गतौ । परस्परं प्रक्षुभितौ जानकीमित्यवोचताम्
वयं वै पक्षिणः साध्वि वनस्था वृक्षगोचराः । परिभ्रमाम सर्वत्र नो सुखं नो भवेद्गृहे
अंतर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान् । त्वत्स्थानमागमिष्यामि सत्यं मे ह्युदितं वचः
एवं प्रोक्ता तया सा तु न मुमोच शुकीं स्वयम् । तदापतिस्तां प्रोवाच विनीतवदनुत्सुकः
सीते मुंच कथं भार्यां रक्षसे मे मनोहरीम् । आवां गच्छाव विपिने विचरावः सुखं वने
अंतर्वत्नी तु वर्तेत भार्या मम मनोरमा । तस्याः प्रसूतिं कृत्वा त्वामागमिष्यामि शोभने
इत्युक्ता निजगादेमं सुखं गच्छ महामते । एतां रक्षामि सुखिनीं मत्पार्श्वे प्रियकारिणीम्
इत्युक्तो दुःखितः पक्षी तामूचे करुणान्वितः । योगिभिः प्रोच्यते यद्वै तद्वचस्तथ्यमेव हि