आगत्य च करे धृत्वा नभस्युत्पतितः कपिः । तावद्ययौ नेत्रपथादुपरि क्षिप्रवेगवान्
चंपकस्तं हनूमंतं युयुधे नभसि स्थितः । बाहुयुद्धेन महता ताडितः कपिपुंगवः
चुकोप मानसे वीरो गर्वपर्वतदारुणः । पदा धृत्वा चंपकं तं ताडयामास भूतले
ताडितोऽसौ कपींद्रेण क्षणादुत्थाय वेगवान् । हनूमंतं तु लांगूले धृत्वा बभ्राम सर्वतः
कपींद्रस्तद्बलं वीक्ष्य हसन्पादेऽग्रहीत्पुनः । भ्रामयित्वा शतगुणं गजोपस्थे ह्यपातयत्
पपात भूमौ सुबलो राजसूनुः स चंपकः । मूर्च्छितो वीरभूषाढ्यमलंकुर्वन्रणांगणम्
तदा हाहेति वै लोकाश्चुक्रुशुश्चंपकानुगाः । पुष्कलं मोचयामास बद्धं चंपकपाशतः
वात्स्यायन उवाच। जगत्पवित्रसत्कीर्ति जानक्या वाच्यवाचनम् । कथं समकरोत्स्वामी तन्मे कथय सुव्रत
यथा मे मनसः सौख्यं भविष्यति सुशोभनम् । तथा कुरुष्व शेषाद्य त्वन्मुखान्निःसृतामृतम् । पिबतस्तृप्तिरेव स्याद्यया संसृतिकृं तनम्
शेष उवाच। मिथिलायां महापुर्यां जनको नाम भूपतिः । तस्यां करोति सद्राज्यं धर्मेणाराधयन्प्रजाः
तस्य संकर्षतो भूमिं सीतया दीर्घमुख्यया । सीरध्वजस्य निरगात्कुमारी ह्यतिसुंदरी
तदात्यंतं मुदं प्राप्तः सीरकेतुर्महीपतिः । सीता नामाकरोत्तस्या मोहिन्या जगतः श्रियः
सैकदोद्यानविपिने खेलंती सुमनोहरा । अपश्यत्स्वमनःकांतं शुकशुक्योर्युगं वदत्
अत्यंतं हर्षमापन्नमत्यंतं कामलोलुपम् । परस्परं भाषमाणं स्नेहेन शुभया गिरा
रममाणं तदा युग्मं नभसि क्षिप्रवेगतः । समुत्पतन्नगोपस्थे स्थितं शब्दं चकार तत्
रामो महीपतिर्भूमौ भविष्यति मनोहरः । तस्य सीतेति नाम्ना तु भविष्यति महेलिका
स तया सह वर्षाणां सहस्राण्येकयुग्दश । राज्यं करिष्यते धीमान्कर्षन्भूमिपतीन्बली
धन्या सा जानकी देवी धन्योऽसौ रामसंज्ञितः । यौ परस्परमापन्नौ पृथिव्यां रंस्यतो मुदा
इति संभाष्यमाणं तु शुकयुग्मं तु मैथिली । ज्ञात्वेदं देवतायुग्मं वाणीं तस्य विलोक्य च
मदीयास्तु कथा रम्याः कुरुते शुकयोर्युगम् । एतद्गृहीत्वा पृच्छामि सर्वं वाक्यं गतार्थकम्
एवं विचार्य सा स्वीयाः सखीः प्रतिजगाद ह । गृह्णंतु शनकैरेतत्पक्षियुग्मं मनोहरम्
सख्यस्तास्तद्गिरिं गत्वा गृह्णन्पक्षियुगं वरम् । निवेदयामासुरिदं स्वसख्याः प्रियकाम्यया
बहुधा विविधाञ्छब्दान्कुर्वद्वीक्ष्य मनोहरम् । आश्वासयामास तदा पप्रच्छ तदिदं वचः
सीतोवाच। मा भैषातां युवां रम्यौ कौ वां कुत्र समागतौ । को रामः का च सा सीता तज्ज्ञानं तु कुतः स्मृतम्
तत्सर्वं शंसतं क्षिप्रं मत्तो वां व्येतु यद्भयम् । इति पृष्टं तया पक्षियुगं सर्वमशंसत
पक्षियुग्ममुवाच। वाल्मीकिरास्ते सुमहानृषिर्धर्मविदुत्तमः । आवां तदाश्रमस्थाने सर्वदा सुमनोहरे
सशिष्यान्गापयामास भावि रामायणं मुनिः । प्रत्यहं तत्पदस्मारी सर्वभूतहिते रतः
तदावाभ्यां श्रुतं सर्वं भावि रामायणं महत् । मुहुर्मुहुर्गीयमानमायातं परिपाठतः
शृण्वावां तेऽभिधास्यावो यो रामो या च जानकी । यद्यद्भविष्यते तस्या रामेण क्रीडितात्मना
ऋष्यशृंगकृतेष्ट्यां च चतुर्धा त्वंगतो हरिः । प्रादुर्भविष्यति श्रीमान्सुरस्त्रीगीतसत्कथः