ते बाणाः पुष्कलस्याहो हृदये तीव्रवेगिनः । आगत्य सुभृशं लग्नाः शोणितं पपुरूर्जितम्
तैर्बाणैर्व्यथितो वीरः शरान्पंच समाददे । सुतीक्ष्णाग्रान्महाकोपाद्वारयन्पर्वतानिव
ते बाणास्तस्य बाणाश्च परस्परमथोर्जिताः । आकाशे रचिताश्छिन्नाः शतधा राजसूनुना
छित्त्वा बाणान्सुतीक्ष्णाग्रान्सुरथांगोद्भवो बली । बाणाञ्छतं समाधत्त पुष्कलं ताडितुं हृदि
ते बाणाः शतधाच्छिन्नाः पुष्कलेन महात्मना । अपतन्समरोपांते शरवेगप्रपीडिताः
तदा तत्सुमहत्कर्म दृष्ट्वा राज्ञः सुतो बली । सहस्रेण शराणां च ताडयन्वक्षसि स्फुटम्
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् । पुनरप्याशु स्वे चापे समाधत्तायुतं शरान्
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् । ततोऽत्यतं प्रकुपितः शरवृष्टिमथाकरोत्
शरवृष्टिं समायांतीं मत्वा चंपक वीरहा । साधुसाधुप्रशंसंतं पुष्कलं समताडयत्
पुष्कलश्चंपकं दृष्ट्वा महावीर्यसमन्वितम् । ब्रह्मणोऽस्त्रसमाधत्त स्वे चापे सर्वशस्त्रवित्
तेन मुक्तं महाशस्त्रं प्रजज्वाल दिशो दश । खं रोदसी व्याप्य विश्वं प्रलयं कर्तुमुद्यतम्
चंपको मुक्तमस्त्रं तद्दृष्ट्वा सर्वास्त्रकोविदः । तत्संहर्तुं तदेवास्त्रं मुमोच रिपुमुद्यतम्
द्वयोरेकतमं तेजः प्रलयं मेनिरे जनाः । संजहार तदास्त्रास्त्रमेकीभूतं परास्त्रकम्
तत्कर्मचाद्भुतं दृष्ट्वा पुष्कलस्तिष्ठतिष्ठ च । ब्रुवञ्छरानमोघांस्तु चंपकं स क्रुधाहनत्
चंपकस्ताञ्छरान्मुक्तानगणय्य महामनाः । रामास्त्रं प्रमुमोचाथ पुष्कलं प्रति दारुणम्
तन्मुक्तमस्त्रमालोक्य चंपकेन महात्मना । छेत्तुं यावन्मनश्चक्रे तावद्ग्रस्तः शरेण सः
बद्धश्चंपकवीरेण रथे स्वे स्थापितः पुनः । पुरं प्रेषयितुं तावन्मनश्चक्रे महामनाः
हाहाकारो महानासीद्बद्धे पुष्कलसंज्ञिके । शत्रुघ्नं प्रययुर्योधाः पलायनपरायणाः
भग्नांस्तान्वीक्ष्य शत्रुघ्नो हनूमंतमुवाच ह । केन वीरेण मे भग्नं बलं वीरैरलंकृतम्
तदोवाच महीनाथ पुष्कलं परवीरहा । बद्ध्वा नयति वीरोऽसौ चंपकः स्वपदोद्धुरः
तस्येदृग्वाक्यमाकर्ण्य शत्रुघ्नः कोपसंयुतः । उवाच पवनोद्भूतं मोचयाशु नृपात्मजात्
महाबलः सुतश्चास्य बद्ध्वा यः पुष्कलं भटम् । तस्मान्मोचय वीराग्र्य कथं तिष्ठसि चाहवे
एतद्वाक्यं समाकर्ण्य हनूमानोमिति ब्रुवन् । जगाम तं मोचयितुं पुष्कलं चंपकाद्भटात्
हनूमंतमथालोक्य तं मोचयितुमागतम् । बाणैः शतैश्च साहस्रैर्जघान परकोपनः
बाणांस्तान्स बभंजाशु मुक्तांस्तेन महात्मना । पुनरप्येनमेवाशु बाणान्मुंचन्महानभूत्
तान्सर्वांश्चूर्णयामास नाराचान्वैरिमोचितान् । शालं करे समाधृत्य जघान नृपनंदनम्
शालं तेन विनिर्मुक्तं तिलशः कृतवान्बली । गजो हनूमता मुक्तो नृपनंदन मस्तके
सोऽप्याहतश्चंपकेन मृतो भूमौ पपातसः । शिलाः संमोचयामास हनूमान्परमास्त्रवित्
चंपकस्ताः शिलाः सर्वाः क्षणाच्चूर्णितवान्भृशम् । बाणयंत्रिकया ब्रह्मन्महच्चित्रमभूदिदम्
स्वमुक्तास्ताः शिलाः सर्वाश्चूर्णिता वीक्ष्य मारुतिः । चुकोप हृदयेऽत्यतं बहुवीर्यमिति स्मरन्