लोकानां मतमास्थाय प्रब्रवीमि तवाधुना । सुरथस्य सुतश्चाहं माता वीरवतीमम
मन्नामयो मधौ सर्वाञ्छोभनान्विदधाति वै । मधुपायंरसावा संत्यजंति मधुमोहिताः
वर्णेन स्वर्णसदृशो मध्ये लिंगवपुर्धरः । तदाख्ययाभिधां वीर जानीहि मम मोहिनीम्
युध्यस्व बाणैः प्रधनेन को जेतुं हि मां क्षमः । इदानीं दर्शयिष्यामि स्वपराक्रममद्भुतम्
शेष उवाच। इति श्रुत्वा महद्वाक्यं पुष्कलो हृदि तोषितः । तं दुर्जयं मन्यमानः शरान्मुंचन्रणेऽभवत्
शरसंघं प्रमुंचंतं कोटिधा पुष्कलं ययौ । चंपकः कोपसंयुक्तो धनुः सज्यमथाकरोत्
मुमोच निशितान्बाणान्वैरिवृंदविदारणान् । स्वनामचिह्नितान्स्वर्णपुंखभागसमन्वितान्
तांश्चिच्छेद महावीरः पुष्कलः प्रधनांगणे । शरांधकारं सर्वत्र मुंचन्बाणाञ्छिलाशितान्
स्वबाणच्छेदनं दृष्ट्वा कृतं वीरेण चंपकः । आह्वयामास बलिनं पुष्कलं कोपपूरितः
मा प्रयाहि रणं त्यक्त्वेति ब्रुवन्समरे पुनः । पुष्कलं हृदये बाणैर्विव्याध दशभिस्त्वरन्
ते बाणाः पुष्कलस्याहो हृदये तीव्रवेगिनः । आगत्य सुभृशं लग्नाः शोणितं पपुरूर्जितम्
तैर्बाणैर्व्यथितो वीरः शरान्पंच समाददे । सुतीक्ष्णाग्रान्महाकोपाद्वारयन्पर्वतानिव
ते बाणास्तस्य बाणाश्च परस्परमथोर्जिताः । आकाशे रचिताश्छिन्नाः शतधा राजसूनुना
छित्त्वा बाणान्सुतीक्ष्णाग्रान्सुरथांगोद्भवो बली । बाणाञ्छतं समाधत्त पुष्कलं ताडितुं हृदि
ते बाणाः शतधाच्छिन्नाः पुष्कलेन महात्मना । अपतन्समरोपांते शरवेगप्रपीडिताः
तदा तत्सुमहत्कर्म दृष्ट्वा राज्ञः सुतो बली । सहस्रेण शराणां च ताडयन्वक्षसि स्फुटम्
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् । पुनरप्याशु स्वे चापे समाधत्तायुतं शरान्
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् । ततोऽत्यतं प्रकुपितः शरवृष्टिमथाकरोत्
शरवृष्टिं समायांतीं मत्वा चंपक वीरहा । साधुसाधुप्रशंसंतं पुष्कलं समताडयत्
पुष्कलश्चंपकं दृष्ट्वा महावीर्यसमन्वितम् । ब्रह्मणोऽस्त्रसमाधत्त स्वे चापे सर्वशस्त्रवित्
तेन मुक्तं महाशस्त्रं प्रजज्वाल दिशो दश । खं रोदसी व्याप्य विश्वं प्रलयं कर्तुमुद्यतम्
चंपको मुक्तमस्त्रं तद्दृष्ट्वा सर्वास्त्रकोविदः । तत्संहर्तुं तदेवास्त्रं मुमोच रिपुमुद्यतम्
द्वयोरेकतमं तेजः प्रलयं मेनिरे जनाः । संजहार तदास्त्रास्त्रमेकीभूतं परास्त्रकम्
तत्कर्मचाद्भुतं दृष्ट्वा पुष्कलस्तिष्ठतिष्ठ च । ब्रुवञ्छरानमोघांस्तु चंपकं स क्रुधाहनत्
चंपकस्ताञ्छरान्मुक्तानगणय्य महामनाः । रामास्त्रं प्रमुमोचाथ पुष्कलं प्रति दारुणम्
तन्मुक्तमस्त्रमालोक्य चंपकेन महात्मना । छेत्तुं यावन्मनश्चक्रे तावद्ग्रस्तः शरेण सः
बद्धश्चंपकवीरेण रथे स्वे स्थापितः पुनः । पुरं प्रेषयितुं तावन्मनश्चक्रे महामनाः
हाहाकारो महानासीद्बद्धे पुष्कलसंज्ञिके । शत्रुघ्नं प्रययुर्योधाः पलायनपरायणाः
भग्नांस्तान्वीक्ष्य शत्रुघ्नो हनूमंतमुवाच ह । केन वीरेण मे भग्नं बलं वीरैरलंकृतम्
तदोवाच महीनाथ पुष्कलं परवीरहा । बद्ध्वा नयति वीरोऽसौ चंपकः स्वपदोद्धुरः