एवं कोलाहले वृत्ते सुरथो नाम भूमिपः । स्वसुतैः सैनिकैश्चाथ वृतः प्रायाद्रणांगणे
गजैरथैर्हयैः पत्तिव्रजैः पूर्णां तु मेदिनीम् । कुर्वन्समुद्रइव तां प्लावयन्ददृशे भटैः
शंखनादेन संघुष्टं जयनादैस्तथैव च । वीक्ष्य तं प्रधनोद्युक्तं सुमतिं प्राह भूमिपः
शत्रुघ्न उवाच। एष राजा समायातो महासैन्यपरीवृतः । अत्र यत्कृत्यमस्माकं तद्वदस्व महामते
सुमतिरुवाच। योद्धव्यमत्र बहुभिर्वीरै रणविशारदैः । पुष्कलादिभिरत्युग्रैः सर्वशस्त्रास्त्रकोविदैः
राज्ञा सह समीरस्य पुत्रः परमशौर्यवान् । युद्धं करोतु सुबलः परयुद्धविशारदः
शेष उवाच। इति ब्रूते महामात्यो यावत्तावन्नृपात्मजाः । रणांगणे धनूंष्यद्धा स्फारयामासुरुद्धताः
तान्वीक्ष्य योधाः सुबलाः पुष्कलाद्या रणोत्कटाः । अभिजग्मुः स्यंदनैः स्वैर्धनुर्बाणकरा मताः
चंपकेन महावीरः पुष्कलः परमास्त्रवित् । द्वैरथेनैव युयुधे महावीरेण शालिना
मोहकं योधयामास जानकिः स कुशध्वजः । रिपुंजयेन विमलो दुर्वारेण सुबाहुकः
प्रतापिना प्रतापाग्र्यो बलमोदेन चांगदः । हर्यक्षेण नीलरत्नः सहदेवेन सत्यवान्
राजा वीरमणिर्भूरि देवेन युयुधे बली । असुतापेन चोग्राश्वो युयुधे बलसंयुतः
द्वैरथं तु महद्युद्धमकुर्वन्युद्धकोविदाः । सर्वे शस्त्रास्त्रकुशलाः सर्वे युद्धविशारदाः
एवं प्रवृत्ते संग्रामे सुरथस्य सुतैस्तदा । अत्यंतं कदनं तत्र बभूव मुनिसत्तम
पुष्कलश्चंपकं प्राह किं नामासि नृपात्मज । धन्योसि यो मया सार्धं रणमध्यमुपेयिवान्
इदानीं तिष्ठ किं यासि कथं ते जीवितं भवेत् । एहि युद्धं मया सार्धं सर्वशस्त्रास्त्रकोविद
इत्यभिव्याहृतं तस्य श्रुत्वा राजात्मजो बली । जगाद पुष्कलं वीरो मेघगंभीरया गिरा
चंपक उवाच। न नाम्ना न कुलेनेदं युद्धमत्र भविष्यति । तथापि तव वक्ष्येऽहं स्वनामबलपूर्वकम्
मम माता राघवेशो मत्पिता राघवः स्मृतः । मम बंधू रामचंद्र स्वःजनो मम राघवः
मन्नाम रामदासश्च सदा रामस्य सेवकः । तारयिष्यति मां युद्धे रामो भक्तकृपाकरः
लोकानां मतमास्थाय प्रब्रवीमि तवाधुना । सुरथस्य सुतश्चाहं माता वीरवतीमम
मन्नामयो मधौ सर्वाञ्छोभनान्विदधाति वै । मधुपायंरसावा संत्यजंति मधुमोहिताः
वर्णेन स्वर्णसदृशो मध्ये लिंगवपुर्धरः । तदाख्ययाभिधां वीर जानीहि मम मोहिनीम्
युध्यस्व बाणैः प्रधनेन को जेतुं हि मां क्षमः । इदानीं दर्शयिष्यामि स्वपराक्रममद्भुतम्
शेष उवाच। इति श्रुत्वा महद्वाक्यं पुष्कलो हृदि तोषितः । तं दुर्जयं मन्यमानः शरान्मुंचन्रणेऽभवत्
शरसंघं प्रमुंचंतं कोटिधा पुष्कलं ययौ । चंपकः कोपसंयुक्तो धनुः सज्यमथाकरोत्
मुमोच निशितान्बाणान्वैरिवृंदविदारणान् । स्वनामचिह्नितान्स्वर्णपुंखभागसमन्वितान्
तांश्चिच्छेद महावीरः पुष्कलः प्रधनांगणे । शरांधकारं सर्वत्र मुंचन्बाणाञ्छिलाशितान्
स्वबाणच्छेदनं दृष्ट्वा कृतं वीरेण चंपकः । आह्वयामास बलिनं पुष्कलं कोपपूरितः
मा प्रयाहि रणं त्यक्त्वेति ब्रुवन्समरे पुनः । पुष्कलं हृदये बाणैर्विव्याध दशभिस्त्वरन्