अत्र गोकर्णतीर्थे तु गृहीता खङ्गपाणिना । शिरश्छित्वा तु खङ्गेन पातयित्वा जले वपुः
तस्य गोकर्णतीर्थस्य निजस्थानमगाच्च सः । सा जरा तत्र गोकर्णे पापापि निधनं गता
कैलासशिखरे राजन्पार्वत्या अभवत्सखी । अहं कथितवानेतत्तव गोकर्णवैभवम्
शिवकांच्याश्च माहात्म्यं पवित्रं वर्णयामि ते । इंद्रप्रस्थतटस्थायां शिवकांच्यामपि प्रभो
गतिः सा परमा पुंसां गोकर्णे या मयोदिता । अत्र श्रीमन्महादेवो विष्णुं सर्वसुरेश्वरम्
आराध्य भक्तराजत्वं लेभे ज्ञानं च तात्विकम् । अतः सर्वे वयं पुत्रा ब्रह्मणस्तं महेश्वरम्
आराधयामः सततं सद्भक्तिज्ञानलिप्सया । अत्र बाणासुरो राजन्नारराध महेश्वरम्
निराहारो वर्षशतं तद्गुणत्वबुभूषया । तस्मै प्रसन्नो भगवान्गणत्वं दत्तवान्निजम्
स्वयं च सर्वदा तस्य पुरपालो बभूवह । इयं पुरी पुरा राजन्नासीद्विष्णोर्महात्मनः
दत्ता शिवाय तुष्टेन तपसा तस्य विष्णुना । अस्यामेकं पुरावृत्तं महदाश्चर्यकारकम्
विप्रस्य शिवभक्तस्य वैकुंठाप्तिर्यथाभवत् । एकस्तु ब्राह्मणो राजन् हेरंबो नाम धार्मिकः
कायेन मनसा वाचा शिवपूजारतः सदा । एकदा स महाभागः शिवतीर्थानि पर्यटन्
शिवभक्तः शिवे राजन्शिवकांच्यामिहागतः । एनां मनोहरां चैव न तत्याज स बुद्धिमान्
पश्चात्तत्रैव तत्याज प्राणानस्या जलांतरे । तत्रैव श्रीमहादेवगणास्तं ब्राह्मणोत्तमम्
नीत्वा कैलासमचलं चेलुस्तदनुशासनात् । अथ मध्ये समायाता गणा वैकुंठतो हरेः
तेभ्यो बलात्समादातुं तं द्विजश्रेष्ठमुद्यताः । आसीत्तेषां महयुद्धं गणानां हरिशर्वयोः
तत्र युद्धेन वैकेषां विजयो न पराजयः । तत्र वैकुंठतो विष्णुरागतो गरुडासनः
कैलासाद्वृषभारूढो महेशश्च त्रिलोकधृक् । तावन्योन्यं मुखं दृष्ट्वा विहस्य जगदीश्वरौ
पश्यतस्म महद्युद्धं नभस्येव गणैः कृतम् । अथ स्वीयान्गणान्विष्णुः शैवांश्च दिवि युद्धतः
निवार्य तं द्विजं तार्क्ष्यमारोप्यागाच्छिवालयम् । शिवेन तद्गणैश्चापि स्वकीयैरपि माधवः
वृतो गछन्पथि श्रीमान्स्तुतस्त्रिदशवंदितः । गत्वा विवेश तं चागं महादेवपुरःसरः
तस्मै द्विजाय वै तस्य दर्शयन्रमणीयताम् । अथ तस्मात्तु कैलासान्महादेवेन वंदितः
माधवः परया भक्त्या वैकुंठमगमत्तदा । द्विजः सोऽपि महाभागस्तीर्थस्यास्य प्रसादतः
गोविंददर्शनं प्राप्य मुमुदे हरसन्निधौ । एतत्ते कथितं राजन्शिवकांच्यास्तु वैभवम्
तीर्थसप्तकनाम्नस्तु शृणुष्व सुसमाहितः । तीर्थमेतन्महाराज चतुर्वर्गफलप्रदम्
दर्शनात्स्पर्शनाद्ध्यानात्स्मरणादपि भूपते । वसिष्ठादिभिरेतस्मिन्महर्षिभिरनुष्ठितम्
महत्तपस्तु सृष्ट्यर्थं तत्रासंस्तु क्षमा नृप । मरीचिरपि धर्मात्मा पुत्रार्थं स्नानमाचरन्
अत्र लेभे महाभागः कश्यपं सुतमुत्तमम् । अत्रिरत्रापि तपसा तोषयद्देवपुंगवान्
सोमं दुर्वाससं दत्तं तेभ्यो लेभे सुतत्रयम् । अंगिरा अपि धर्मात्मा तीर्थस्यास्य प्रसादतः
लेभे सुतांस्तुतद्वंश्या जाता आंगिरसा द्विजाः । पुलहोऽपि सुतं लेभे दंभोलि गुणवत्तरम्