नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः । यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः
कन्यां रूपेण संपन्नां न दद्यात्कुलशीलिने । विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः
पत्नीं दूषयते यस्तु कुलशीलवतीं नरः । स्वयमेवात्ति मधुरं बंधुभ्यो न ददाति यः
भोजने ब्राह्मणार्थे च पाकभेदं करोति यः । कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः
अतिथीनवमन्यंते सूर्यतापादितापितान् । अंतरिक्षभुजो ये च ये च विश्वासघातकाः
न पश्यंति महाराज रघुनाथ पराङ्मुखाः । असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः
पवित्रयति सर्वान्नो दर्शनेन मनोहरः । अत्र तिष्ठति देवानां मुकुटैरर्चितांघ्रिकः
पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः । श्रुतयो नेतिनेतीति ब्रुवाणा न विदंति यम्
यत्पादरज इंद्रादिदेवैर्मृग्यं सुदुर्ल्लभम् । वेदांतादिभिरन्यूनैर्वाक्यैर्विदंति यं बुधाः
सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः । आरुह्य तं नमस्कृत्य संपूज्य सुकृतादिना
नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः । अत्राप्युदाहरंतीममितिहासं पुरातनम्
तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम् । रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुंबिनः
चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम् । आसीत्कांची महाराज पुरी लोकेषु विश्रुता
महाजनपरीवारसमृद्धबलवाहना । यस्यां वसंति विप्राग्र्याः षट्कर्मनिरता भृशम्
सर्वभूतहिते युक्ता रामभक्तिषु लालसाः । क्षत्रिया रणकर्तारः संग्रामेऽप्यपलायिनः
परदार परद्रव्य परद्रोहपराङ्मुखाः । वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः
कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा । शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः
कुर्वंति कथनं रामरामेति रसनाग्रतः । प्राकृताः केऽपि नो पापं कुर्वंति मनसात्र वै
दानं दया दमः सत्यं तत्र तिष्ठंति नित्यशः । वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः
न पारक्ये धने लोभं कुर्वंति न हि पातकम् । एवं प्रजा महाराज रत्नग्रीवेण पाल्यते
षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः । एवं पालयमानस्य प्रजाधर्मेण भूपतेः
गतानि बहुवर्षाणि सर्वभोगविलासिनः । विशालाक्षीं महाराज एकदा ह्यूचिवानिदम्
पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम् । पुत्रा जाता विशालाक्षि प्रजारक्षा धुरंधराः
परीवारो महान्मह्यं वर्तते विगतज्वरः । हस्तिनो मम शैलाभा वाजिनः पवनोपमाः
रथाश्च सुहयैर्युक्ता वर्तंते मम नित्यशः । महाविष्णुप्रसादेन किंचिन्न्यूनं ममास्ति न
एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम । परं तीर्थं मया नाद्य कृतं परमशोभने
गर्भवासविरामाय क्षमं गोविंदशोभितम् । वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान्
करिष्यामि मनोहारि तीर्थसेवनमादृतः । यो नरो जन्मपर्यंतं स्वोदरस्य प्रपूरकः
न करोति हरेः पूजां स नरो गोवृषः स्मृतः । तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये
सकुटुंबः सुते न्यस्य धुरं राज्यस्य निर्भृताम् । इति व्यवस्य संध्यायां हरिं ध्यायन्निशांतरे