तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितम् । निमेषोन्मेषरहितं तेजः किंचिद्ददर्श सा
गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत् । दृष्ट्वा राज्ञांगजा खेदं प्राप्तवत्यतिदुःखिता
न जनन्यै तथा पित्रे शशंसाघेन विप्लुता । स्वयमेवात्मनात्मानं सा शुशोच भयातुरा
तदा भूश्चलिता राजन्दिवश्चोल्का पपात ह । धूम्रा दिशो भवन्सर्वाः सूर्यश्च परिवेषितः
तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः । धनं नष्टं रत्नयुतं कलहोभून्मिथस्तदा
तदालोक्य नृपो भीतः किंचिदुद्विग्नमानसः । जनानपृच्छत्केनापि मुनये त्वपराधितम्
पारंपर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम् । ययौ सुदुःखितस्तत्र समृद्धबलवाहनः
तं वै तपोनिधिं वीक्ष्य महता तपसायुतम् । स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु
तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः । तवात्मजाकृतं सर्वमुत्पाताद्यमवेहि तत्
तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम् । बहुसुस्राव रुधिरं जानती त्वामुवाच न
तस्मादियं महाभूप मह्यं देया यथाविधि । ततश्चोत्पातशमनं भविष्यति न संशयः
तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजाम् । ददौ कुलवयोरूप शीललक्षणसंयुताम्
दत्ता यदा नृपेणेयं कन्या कमललोचना । तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः
राजा दत्त्वात्मजां तस्मै मुनये तपसांनिधे । प्राप स्वां नगरीं भूयो दुःखितोऽयं दयायुतः
शेष उवाच। शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिंत्यं तपोबलम् । प्रशशंस तपो ब्राह्मं सर्वलोकैकवंदितम्
अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे । यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत्
क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम् । क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम्
इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे । क्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान्
हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः । पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान्
योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा । हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः
शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः । पृष्ठतोऽनुजगामाशु रथेन हयशोभिना
गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः । रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम्
स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम् । पुरोंतिके हि संप्राप्तं सर्वयोधसमन्वितम्
तदा गजानां सप्तत्या चंद्रवर्णसमानया । अश्वानामयुतैः सार्धं रथानां कांचनत्विषाम्
सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान् । शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान्
वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च । किं करोमीति राजा तं जगाद पुरतः स्थितः
राजापि तं स्वीयपदे प्रणम्रं । दोर्भ्यां दृढं संपरिषस्वजे महान् । जगाम साकं तनये स्वराज्यं । निक्षिप्य सर्वं बहुधन्विभिर्वृतः
रामचंद्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम् । सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम्
राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा । सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा
एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह । स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः